________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1776
A DESCRIPTIVE CATALOGUE OF
No. 2482. ब्रह्मगीताव्याख्या.
BRAHMAGĪTĀVYAKITYĀ. Substanco, lapor. Siz 13} X 8.1 inches. Pages, 256. Lines, 22
on a page. Character, Telugn. condition, good. Appearance, new.
Begins on fol. 1«. The other work herein is Sūtayītävyakhyii 1286.
A commentary on the Brahmagita, a portion of the Sūtasajilbitii of the Skinda-Purāņa, in ) 2 Adbyāyas; by Madhavacirya. Beginning :
नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने ।
सविलासमहामोहग्राहग्रासैकर्मिणे ।। एवमुपनिषदेकसमधिगम्यब्रह्मात्मैकत्वविज्ञानस्य निश्रेयससाधनत्वमुक्तम्। एतच्च सर्वशाखासम्मतमिति दर्शयितुमैतरी(रे)यकतैत्तिरीयकादिसमस्तोपनिषदर्थम्य साकल्येन प्रतिपादितां ब्रह्मगीतां वक्तुं मुनीनां प्रश्नमवतार. यन्ति(ति) । अथ तां वक्तुं पुरावृत्तान्तमुदाहरति पुरेति । सर्वज्ञस्सर्वविदिति । सामान्यतः सर्व जानातीति सर्वज्ञः; विशेषेणापि सर्व वेत्तीति सर्ववित् । सर्वश्चासौ ज्ञश्चेति सर्वज्ञः-सर्वजगदात्मकः चिदेकशरीर इत्यर्थः । एवंरूपपरमशिव एव हि रजोगुणोपहितस्सन्निखिलजगत्सर्जनाय ब्रह्मा भवति । परमशिवस्य चैवंरूपमाम्नायते यस्सर्वज्ञस्सर्ववित्, यस्य ज्ञानमयं तपः इति । निर्मलावृतमिति - निर्मलै कस्सनकादिदिव्ययोगिभि: परिवृतमित्यर्थः । End:
एवं ब्रह्मतत्त्वं प्रतिबोधयति । एष एव गुरुस्साक्षाद्गुरुर्नान्यः ; निश्शेषदुःखोच्छित्तिनिरतिशयानन्दावाप्तिलक्षणस्थ पुरुषार्थस्य प्रापकत्वादित्यर्थः । एतदेव प्रपञ्चयति-दृश्यरूपमित्यादिना । गुरुर्गुरुरिति गुरवः पित्राद्याः तेषामप्यसौ विद्वान्गुरुः । प्रतिज्ञातार्थमर्थमुपसंहरति-सर्ववेदान्तेति । स्पष्टोऽर्थः । इति परशिवभक्त्येति कविवाक्यम् ॥
For Private and Personal Use Only