________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1710
A DESCRIPTIVE CATALOGUE OF
Beginning :
वन्दे सन्ततदानेशं साम्ब शालिवृतीश्वरम् । शान्तं प्रसन्नवदनं चन्द्रार्धकृतशेखरम् ।। अखण्डपरमानन्दपरिपूर्णात्ममूर्तये । निर्गुणाय गुणाविष्टकर्मणे ब्रह्मणे नमः ।। यद्वचःकाणका वेदा यल्लीलाकणिका जगत् । यत्प्रभाबिन्दुरिन्द्वाद्याः नमस्तस्मै परात्मने । पुरा विधात्रा ब्रह्माण्डकुहरीगृहमेधिना । लीलया कलिता कापि तपस्सीमा तपस्विनाम् ॥ भूरेषा भूतिजननी पुरातनकृताश्रया । जायते नैमिशाभिख्या विख्याता जगतीतले ॥ पापानामूषरक्षेत्र पुण्यानामुदयस्थलम् । आनन्दानामिवाधान(र)माश्चर्याणामिवाकरम् ।। नैमिशं मुनिशार्दूलः समन्तादुपसेवितम् । तत्र सर्वे मुनिगणा मिलिता धर्मचारिणः ।। काङ्क्षन्तः परमां सिद्धिं सत्रं द्वादशवार्षिकम् । यज्वानं शौनकं कृत्वा चक्रुरक्रोधमध्वरम् । तावदभ्याययो श्रीमान् सूतः पौराणिकोत्तमः । ददर्श महतीं शालां तपसा निर्मिता शुभाम् ।। हूयमानैर्हव्यवाहैः प्रफुल्लाशोकमालिकाम् । आस्तीर्णा कुशसङ्घातैः कौशेयाम्बरधारिणीम् ॥ श्रीमदुत्तरवेद्यास्यां यूपसीमन्तपद्धतिम् । शामित्राध्वर्युणा बाहुयुगली कलशस्तनीम् ॥ वेदिमध्यां धूमकेशी संभाराभरणोज्ज्वलाम् । एवंभूतां चित्ररूपां क्रतुलक्ष्मीमित(व)स्थिताम् ।
For Private and Personal Use Only