________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1286
A DESCRIPTIVE CATALOGUE OF
श्रीरामायणसिन्धुपातसदृशां(शी)टीका मनोहारिणी रङ्गाचार्यबुधोऽलिखत्स विदुषामात्रेयवंशोद्भवः ।। आरण्यकाण्डगास्सर्गाः पञ्चसप्ततिरीरिताः ।।
No. 1902. रामायणव्याख्या (चतुरर्थी). RAMAYANAVYAKHYA (CATURARTHI.) Substance, palm-leaf. Size, 171 x 1 inches. Pages, 132. Lines, 5
on a page. Character, Telugu. Condition, injured. Appearance, old. Incomplete.
A commentary evolving 4 meanings out of each of certain stanzas in the Rāmāyaṇa. Beginning :
परस्परतपस्संपत्फलायितपरस्परौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ।। कूजन्तं रामरामेति मधुरं मधु राक्षरम् ।
आरूह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ मधु(रं) मधु राक्षरमिति पदविभागः। मस्य मकारस्य धू: भारो यः उपरिस्थितत्वा(त् ), ऋक्पूरब्धःपथामानक्ष(क्ष)इति समासान्तोऽप्रत्ययः । रेत्यक्षरं राक्षरं सर्व मिळित्वा मरेत्यर्थः । पुरा खलु किरातजातिपतितस्य प्राचेतसस्य कारुण्यात्सप्त ऋषयः मरेति मन्त्रोपदेशमुपदिष्टवन्त इति कथात्रानुसन्धेया। तादृङ्मन्त्रे बहुधा उच्चार्यमाणे सति रामरामेति स्यात् । मधु क्षौद्रकल्पं रामरामेति कूजन्तं जल्पन्तम्. End:
कुण्डलालकतं कुण्डं श्मशानकुण्डं लाति गृह्णातीति कुण्डलम् भलङ्कतं [अलंकृतं यस्य तत् श्मशानकुण्डमिव विभ्रतमित्यर्थः । महत् कुम्भकर्णशिरः भाति प्रकाशते ॥
For Private and Personal Use Only