________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1286
कुशचीरपरिक्षिप्तं ब्राह्मया लक्ष्म्या समास्तम् । यथा प्रदीप्तं दुर्दर्श गगने सूर्यमण्डलम् ॥
प्रविश्य तापसाश्रममण्डलं तापसानां दण्डकारण्यवासिनां मुनीनामाश्रमाणां मण्डलं समूहं ददर्श। सार्धेस्सप्तभिश्श्लोकः आश्रममण्डलं विशिनष्टि कुशेत्यादिभिः । कुशचीरपरिक्षिप्तं कुशवल्कलैर्व्याप्तं ब्राह्मया ब्रह्मवर्चससंपन्नमुनिनिवासे तबा(द्वा)मचा लक्ष्म्या समावतम् । अत एव गगने आकाशे सूर्यमण्डलं यथा रविमण्डलमिव स्थितं दुर्दर्श रक्षोभिर्द्रष्टुमप्यशक्यमित्यर्थः । दुर्धर्षमिति पाठे रक्षोभिराक्रमितुमशक्यमित्यर्थः । रविमण्डलपक्षे गायत्र्यभिमन्त्रितैः ब्राह्मणदत्तैरव्यैर्दानवानां निवारणात्तै(:) दुर्धषत्वं द्रष्टव्यम् । एतत्तैत्तिरीयकशाखायां प्रसिद्धम् । प्रदीप्तमाश्रमन्ददर्शेति पूर्वेण सम्बन्धः. End:
ततो महद्वम॑ च दूरसंक्रमं क्रमेण गत्वा प्रविलोकयन् वनम् ।
ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपुष्पसङ्खलाम् ॥ Colophon:
इति श्रीमद्रामायणे आदिकाव्ये श्रीमद्वाल्मीकीये श्रीमदरण्यकाण्डे पञ्चसप्ततितमस्सर्गः ॥
ऋश्यमूकमिति शेषः ॥
इति श्रीमद्रामायणे आदिकाव्ये श्रीमदरण्यकाण्डे गर्भव्याख्याने पञ्चसप्ततितमस्सर्गः ॥
वादिहंसवलाहकान्वयरत्नाकरसुधाकरश्रीगोपालगुरुकटाक्षप्रसरणनिवारिताविद्यापटलेन रङ्गाचार्येण विरचिते रामायणान्वयिसमाख्याने व्याख्याने अरण्यकाण्डस्सम्बसः ॥
श्रीसाकेतपुराधिपस्य कृपया सीतामनोहारिणः श्रीरामस्य दिनान्धकारपटलच्छेदोष्णरश्मेगुरोः
For Private and Personal Use Only