________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1267
THE SANSKRIT MANUSCRIPTS. करोति रामायणतत्त्वदीपिका
महेशतीर्थाख्ययतिर्यथामति ॥ अवलोकनसौकर्यमालोच्यैकत्र सारतः । नानाटीकास्थवाक्यानि लिख्यन्ते (च) यथामति ।। सर्वेषां ग्रन्थकर्तृणाम् लेखकोऽहं(अंशकोऽहं)न कल्पकः । लिखितान्यत्र तैर्यानि-लिख्यन्ते तान्यतो मया ॥ ग्रन्थबाहुळ्यभीत्यात्र क्वचिच्छब्दसुशोधनम् । निघण्टुकथनञ्चार्थः पदानां लिख्यतेऽधुना ॥ सीतारामौ समुद्दिश्य विराधखररावणैः।
उक्तानां परुषोक्तीनां वास्तवार्थोऽत्र वर्ण्यते ॥ ब्रह्मलोकप्रसिद्ध शतकोटिविस्तरं रामचरितं भूलोकवर्तिनां चतुर्णा वर्णानां तापत्रयविमोचनाय संक्षिप्य रचयितुमुद्युक्तः परमकारुणिको ब्रह्मा वाल्मीकिरूपे(ण) भूमौ खांशेन समभवत्. End:
चतुर्विंशतिसहस्रश्लोकैः श्रीरामायणं चिकीपुर्वाल्मीकिः गायत्र्यादिमाक्षरेणोपक्रम्य तत्सारभूतं संक्षेपं यादिति गायव्यन्तिमाक्षरेण निगमनं कृतवान् ।। Colophon :
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीनारायणतीर्थशिष्यमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकायां बालकाण्डे संक्षेपो नाम प्रथमस्सर्गः ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ।। शुभकृद्वत्सरे शुद्धनभोमासे तु सप्तमे ।
सागिधर्मस्य तनयो वेङ्कटः कृष्णमूरिणा(णः) । बालरामायणं(णे)तत्त्वदीपिका लिखिता मया ।।
163
For Private and Personal Use Only