________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1519
Adhyayas 60 to 89 in the 10th Skandha, 90th, incomplete, Same as the above. Beginning:
• तस्याः रुक्मिण्याः श्लथद्वलयतः दुःखातिशयप्रयुक्तदेहकार्येन विगलहलयांत् हस्तान्यजनं पपात । विक्लबधियः खिन्नबुद्धेः तस्या देहः मुह्यन् सन् मूछी प्राप्तस्सन् वातनिहतरम्भेव कदलीव केशान् प्रविकीर्य सहसैव पपात । तदिति । हास्यप्रौढिमजानन्त्याः प्रियायाः रुक्मिण्याः प्रेमबन्धनं प्रेमातिशयबन्धतां दृष्टा भगवान् कृष्णः करुणस्सन् दयाविष्टस्सन् किमर्थं मयैवमुक्तमित्यन्वतप्यत । पर्यङ्कादिति । चतुर्भुजो भगवान् कृष्णः अथ पर्यङ्कादाश्ववरुह्य केशान् सम्मुह्य तद्वकं रुक्मिण्याः मुखारविन्दं पद्मपाणिना पद्मतुल्येन स्वपाणिना प्रामृजत् ।।
Colophon:
इति श्रीवेङ्कटकृष्णविरचितायां श्रीभागवततात्पर्यचन्द्रिकायां दशमस्कन्धे षष्टितमोऽध्यायः ॥ ___ श्रीशुकः । एकैक इति। कृष्णस्य ताः अबलाः जायाः एकैकशः सर्वात्मसंपदा सर्वविधसंपदा पितुरनुपमान् दश दश पुत्रान् अजीजनन् जनयामासुः ॥ End:
कथामृतं यः पुरुषः श्रवणपुटैः अभीक्ष्णं पिबति । सः संसारभ्रमणपरिश्रमं संसारभ्रमणप्रयुक्तं परिश्रमं जहाति त्यजति मुक्तो भवतीत्यर्थः । Colophon:
इति वेङ्कटकृष्णविरचितायां श्रीभागवततात्पर्यचन्द्रिकायां श्रीभागवते दशमस्कन्धे एकोननवतितमोऽध्यायः ।।
श्रीशुकः एकदेति । हे भारत एकदा कालविशेषे द्वारवत्यां द्वारकायां विप्रपल्याः कुमारकः जातमात्रः तत्कालजातस्सत्य (यो) भुवं स्पृष्ट्वा ममार किल । विप्र इति । सः विप्रः मृतकं बालं गृहीत्वा राजद्वारि
For Private and Personal Use Only