________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1473
हिमाचलेन समतां नीतास्सप्तापि चाचलाः । यद्दानाम्बुप्रवाहेण मेघोदस्यानपेक्षकाः ॥ कृषीवलाः प्रतिदिशं प्रहृष्यन्ति दिनेदिने । तेन श्रीरामभक्तेन सर्वा विद्याः प्रजानता ।। शृङ्गिबेरपुरेशेन रिपुव(क)क्षदवाग्मिना । अर्थिनां कल्पवृक्षण विद्वजनसभासदा ।। भट्टनागेशशिष्येण बध्यते रामवर्मणा । प्रणम्य जानकीजानि रामं कामातिसुन्दरम् ।। चापबाणधरं देवं मायामानुषविग्रहम् । सेतुः परोपकृतये ध्यात्मरामायणाम्बुधौ ॥
सुशब्दमणिभिः श्लक्ष्णैः प्रीयतां तेन राघवः । श्रीमता वाल्मीकिना लोकोद्धाराय च कृते रामचरित्रवर्णनरूपे रा. मायणाख्यकाव्ये भगवतो लीलावतारस्य रावणादीनां दृढमनुष्यत्वबुद्धये नटवदात्मखरूपगोपनेन व्यवहरतः खरूपं वाल्मीकिना गुप्तमेव तत्र तत्र निरूपितः (म् ) । तदेतत्परमदयालुः भगवान् साक्षाद्वेदव्यासो लोकानां स्फुटं बोधयितुं नारदब्रह्मसंवादरूपेण ब्रह्माण्डपुराणे अध्यात्मरामायणाख्यसंहितां चक्रे । तस्याश्च वाल्मीकिसूचितार्थज्ञापकत्वं बोधयितुं वाल्मीकिरामायणवदेव काण्डसर्गोपेततया कृतां यथामति खमतिदोषशुद्धये व्याचक्ष्महे । तामेतां संहितां नैमिषेऽरण्ये नैमिषेयानृपीन् श्रावयाते स्म सूत इत्याहअप्रमेयेति । अप्रमेयं त्रयं मायाजीवेश्वररूपं तदतीतस्ततोऽधिकचासौ। निमलं ज्ञानं तत्स्वरूपाय नम इति वाङ्मनसामगोचरायेत्यर्थः । End:
यो भूतेश्वरः भवः शिवः असकृत् अखिलवेदराशिम् आलोढ्य तारकं ब्रह्म तदेव रामः विष्णुरहस्यमूर्तिषु अत्यन्तरहस्यमूर्तिः मुख्या
For Private and Personal Use Only