________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1472
A DESCRIPTIVE CATALOGUE OF
No. 2158. अध्यात्मरामायणव्याख्या.
ADHYATMARAMAYANAVYĀKHYA. Pages, 245. Lines, 21 on a page.
Begins on fol. 244a of the MS. described under No. 2153. From the beginning to tho end of the Yuddhakāņda.
This commentary on the Adhyatmaramäyaņa is hy Rāmavarman, king of Srigiborapura, son of Himmativarman and pupil and patron of Någosabhatta, and is called AlhyūtmarāmāyaṇaSetu. Beginning :
वामे भूमिसुता पुरस्तु हनुमान्पश्चात्सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वायव्यकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ दिनेशवंशजलधौ पूर्ण : शीतकरोपमः।।
प्रजाह्लादकरो विष्णुभूषणः कौस्तुभो वरः ॥ अत्र विष्णुभूषणत्वेन परमभक्ततया सदा भगवद्धृदयारूढता[स] ध्वनिता :।
नाम्ना हिम्मतिवर्माभूद्धैर्येण हिमवानिव । रूपेण जितकन्दर्पः क्षमायां क्षमया समः ।। पराक्रमैर्जितस्साक्षात्तेजसा भानुमानिव । भूपानां भ्रष्टराज्यानां पुरा राज्यप्रदायकः ॥ यं दृष्ट्वार्थिसमूहस्य जातेयं निश्चिता मतिः । हित्वा पशुत्वं स्त्रीत्वञ्च कामधुरभूमिमागता ।। तस्माज्जातो रामदत्तश्चन्द्राचन्द्र इवापरः। मित्राणाञ्च रिपूणाञ्च मानदः प्रथितः प्रभुः ॥ मानदो मानदाता (वित्ता)नां दुष्टानां मानखण्डनः । आसमुद्रा क्षमादेवी यत्कीर्त्या धवलीकृता ।
For Private and Personal Use Only