________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1468
A DESCRIPTIVE CATALOGUE OF
एतेषां नष्टबुद्धीनां परलोकः कथं भवेत् ।। इति चिन्ताकुलं चित्तं जायते मम सन्ततम् । लघूपायेन येनैषां परलोकगतिर्भवेत् ॥ तमुपायमुपाख्याहि सर्व वेत्ति यतो भवान् । इत्यर्षे (त्यूषे)र्वाक्यमाकर्ण्य प्रत्युवाचाम्बुजासनः ।। साधु पृष्टं त्वया साधो वक्ष्ये तच्छृणु सादरम् । पुरा त्रिपुरहन्तारं पार्वती भक्तवत्सला ।। श्रीरामतत्त्वं जिज्ञासुः पप्रच्छ विनयान्विता । प्रियायै गिरिशस्तस्मै (स्यै) गूढं व्याख्यातवान् स्वयम् ॥ पुराणोत्तममध्यात्मरामायणमिति स्मृतम् । तत्पार्वती जगद्धात्री पूजयित्वा दिवानिशम् ।। आलोचयन्ती खानन्दमना तिष्ठति सांप्रतम । प्रचरिष्यति तल्लोके प्राण्या दृष्टवशायदा ॥ तस्याध्ययनमात्रेण जना यास्यन्ति सद्गतिम् । तावद्विजृम्भते पापं ब्रह्महत्यापुरस्सरम् ।।
End:
अध्यात्मरामं पठतश्च नित्यं श्रोतुश्च भक्तया लिखतश्च रामः । . अतिप्रसन्नश्च सदा समीपे सीतासमेतः श्रियमातनोति ॥ रामायणं जनमनोहरमादिकाव्यं ब्रह्मादिभिस्सुरवरैरपि संस्तुतञ्च । । शुध्य(श्रद्धा)न्वितः पठति यः शृणुयात्स नित्यं विष्णोः ख(प्र)याति
सदनं सुविशुद्धदेहः ॥ Colophon :
इति श्रीमदध्यात्मरामायणे उत्तरकाण्डे उमामहेश्वरसंवादे श्रीरामवैकुण्ठप्रवेशन्ना(शो ना)म नवमस्सर्गः ॥
For Private and Personal Use Only