________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
www.kobatirth.org
1467
Adhyaya of the Uttarakhanda of the Brahmandapurana, which introduces the subject of the Adhyatmarāmāyaṇa, is herein given first.
THE SANSKRIT MANUSCRIPTS.
अप्रमेयत्रयातीतनिर्मलज्ञानमूर्तये । मनोगिरां विदूराय दक्षिणामूर्तये नमः ||
सूत उवाच -
कदाचिन्नारदो [भ्या]योगी परानुग्रहवाञ्छया । पर्यटन् सकलान् लोकान् सत्यलोकमुपागमत् || तत्र दृष्ट्वा मूर्तिमद्भिश्छन्दोभिः परिवेष्टितम् । बालार्कप्रभया सम्यग्भासयन्तं सभागृहम् ॥ मार्कण्डेयादिमुनिभिः स्तूयमानं मुहुर्मुहुः । सर्वार्थगोचरज्ञानं सरखत्या समन्वितम् ॥ चतुर्मुखं जगन्नाथं भक्ताभीष्टफलप्रदम् । प्रणम्य दण्डवद्भक्तया तुष्टाव मुनिपुङ्गवः ॥ सन्तुष्टस्तं मुनिं प्राह स्वयंभूर्वेष्णवोत्तमम् । किं कामस्त्वमसि तद्वदिष्यामि ते मुने ॥ इत्याकर्ण्य वचस्तस्य मुनिर्ब्रह्माणमब्रवीत् । त्वत्तः श्रुतं मया सर्व पूर्वमेव शुभाशुभम् ॥ इदानीमेकमेवास्ति श्रोतव्यं सुरसत्तम । तद्रहस्यमपि ब्रूहि यदि तेऽनुग्रहो मयि ॥ प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः । दुराचाररतास्सर्वे सत्यवार्तापराङ्मुखाः ||
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only