SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1402. A DESCRIPTIVE CATALOGUE OF __ यत्र यस्मिन्युधिष्ठिरपक्षे योगीश्वरः सर्वयोगसिद्धानामीश्वरः सर्वज्ञः सर्वशक्तिर्भगवान् कृष्णः भक्तदुःखकर्षणस्तिष्ठति नारायणः । यत्र पार्थो धनु. र्धरः गाण्डीवधन्वा तिष्ठति अर्जुनो नरः । तत्र नरनारायणाधिष्ठिते तस्मिन् यु. धिष्ठिरपक्षे श्रीः राज्यलक्ष्मीः, विजयः शत्रुपराजयनिमित्त उत्कर्षः, भूतिः उत्तरोत्तरं राज्यलक्ष्म्या विवृद्धिः, ध्रुवा अवश्यंभाविनीति सर्वत्र अन्वयः । नीतिर्नयः एवम्ममेति निश्चयः । तस्माद्वधा पुत्रविजयाशां त्यक्त्वा भगवदनुग्रहितैः लक्ष्मीविजयादिभाग्भिः पाण्डवैस्सह सन्धिरेव विधीयतामित्यभिप्रायः ॥ काण्डत्रयात्मकं शास्त्रं गीताख्यं येन निर्मितम् । आदिमध्यान्तषट्रेषु तस्मै भगवते नमः ॥ श्रीगोविन्दमुखारविन्दमधुरन्त्विष्टं महाभारते गीताख्यं परमं रहस्यमृषिणा व्यासेन विख्यापितम् । व्याख्यानं भगवत्पदैः प्रतिपदं श्रीशंकरायैः पुनः विस्पष्टं मधुसूदनेन मुनिना स्वज्ञानसिद्धयै कृतम् ॥ इह योऽस्ति विमोहयन्मनः परमानन्दघनस्सनातनः । गुणदोषभृदेष एव नस्तृणतुल्यो यदयं स्वयञ्जनः ।। श्रीरामविश्वेश्वरमाधवानां प्रसादभासाद्य मया गुरूणाम् । व्याख्यानमेतद्विदितं सुबोधं समर्पितं तच्चरणारविन्दे ॥ Colophon: ___ इति श्रीपरमहंसपरिव्राजकाचार्यविश्वेश्वरसरस्वतिपूज्यपादशिष्यश्रीमधुसूदनसरस्वतिविरचितायां भगवद्गीतागूढार्थदीपिकायामष्टादशोऽध्यायः ।। For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy