SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. भगवत्पादभाष्यार्थमालोच्या तिप्रयत्नतः । प्रायः प्रत्यक्षरं कुर्वे गीतागूढार्थदीपिकाम् || सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् । परं निश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् || सच्चिदानन्दरूपं तत् पूर्ण विष्णोः परं पदम् । यत्प्राप्तये समारब्धा वेदाः काण्डत्रयात्मकाः || कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्रयं क्रमात् । तद्रूपाष्टादशाध्यायी गीता काण्डत्रयात्मिका || एकमेकेन षट्रेन काण्डमत्रोपलक्षयेत् । कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययोः ॥ यतस्समुच्चयो नास्ति तयोरतिविरोधतः । भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्तिता ॥ Acharya Shri Kailassagarsuri Gyanmandir उभयानुगता सा हि सर्वविघ्नापनोदिनी । कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा ॥ तत्र तु प्रथमे काण्डे कर्मतत्त्यागवर्त्मना । त्वपदार्थो विशुद्धात्मा सोपपत्ति निरूप्यते ॥ द्वितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना । भगवान् परमानन्दस्तत्पदार्थोऽवधार्यते ॥ तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् । एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम् ॥ यत्र योगीश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्भुवा नीतिर्मतिर्मम ॥ For Private and Personal Use Only 1401
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy