________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1338
A DESCRIPTIVE CATALOGUE OP नेत्युक्तम् । राजनियोगात् वर्णधर्मप्रवृत्ति(:) राजधर्माश्रिता । शुभाः हितकराः । इदानीमाश्रमिणां ब्रह्मचर्यादीनां धर्म श्रेष्ठं सर्वेषां साधारणमुत्कृष्टफलं च वक्तुमर्हसीत्यर्थः । मोक्षधर्मस्योत्तमत्वं वक्तुमितरधर्मस्य निकृष्टत्वमाह सर्वत्रेति ॥
Colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्यसागरमुनिविरचिते व्याख्यानरत्ने शान्तिपर्वणि मोक्षधर्मे प्रथमोऽध्यायः ॥ End:
उत्तराध्याये विरूढं दशरात्रस्यैकं पदं व्याख्यायते दशरात्रसम्ब. न्धित्वेन यथा विरूढमङ्कुरितं भवति तथायमाह दाकृतः भुक्त इत्यर्थः । इतः परं तत्र व्याख्येयानि पदानि व्याख्यायन्ते। क्षाम्य क्षमा कुरु अभिमुखाभिमुख्ययोग्य सौम्यानातकम्यालङ्घनीय। तस्य चेति । तस्य ना. गस्य क्लेशकरणं पीडाकर कार्य रथोद्वहनं समाहितम् । तस्मै वस्त्यस्तु । खगुणैर्गभस्ति (भि)स्त्वं प्रकाशितश्शशाङ्ककरसंस्पर्शश्शशाङ्ककिरणवत्सुस्वकरैरात्मन्यात्मप्रकाशिभिईयोरन्यरूपप्रकाशितैरनुपमैरित्यर्थः । एकचक्रं कालचक्रः शुके(क्ले)तामसित इति यस्य वारिधरोदधेः मेघ घ जलमधः (निधेः) पाद इव पादो देहभागश्शुक्ले प्रकाशात्मन्यादित्ये तामासतस्तमोयुक्त इव उपसवितुराच्छादकत्वात्तत आकृष्य वर्षासु प्रावृषीत्यर्थः । शुचिनादीत्येन प्रत्यादत्तं विसृजति प्रत्यादित्यप्रतीकाशः द्वितीयभास्कर इव प्रकाशमानः। अनिलसखो वह्निः स(सं)हिता वैदिकी अन्तरभिलुता मनसा जप्ता असन्निधिः कुसूलनिहितधान्यरहितः । उञ्छशिलाशनः क्षेत्र. ब्रीह्यादिषु खामिभिरपकृत्ये(ते)षु तत्र पतितां मञ्जरीमादाय तत्र निक्षिप्य पक्षिभिः भक्ष्यते। तत्र पतितधान्यपतितायाशनशीलः । अन्वर्थोपगतेस्सम्प्रेषणमाज्ञाकरणं नियोजनं प्रवर्तनं तैर्हेतुभिः स्मरणीयोऽस्मि। नातिरिक्ता
For Private and Personal Use Only