________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TILE SANSKRIT MANUSCRIPTS.
1337 ताग्रहस्तेन मण्डलीकृतशुण्डाग्रेण । तस्य वेगमिति सम्बन्धः । रथे रथोपरि । तस्य शल्यस्य । बृहतः पुष्टान् । साधुवाहिनः सम्यग्वहनशीलान् । तम(सा)मोहं (हेन)प्रमुक्तम् हस्ताद् ळातमङ्कुशाकिदं यस्य । इतः पर्वान्तग्रन्थार्थो(र्थः) स्पष्टः । तस्मान्न कृतं व्याख्यानम् ।।
No. 1963. महाभारतव्याख्या.
MAHABHARATA VYAKHYĀ. Substance, palm-enf. Size, 171 x 1 inches. Pages, 514. Lines, 7
onapage. Character, Telugu. Condition, good. Appearance, old. Santiparvan ; complcte.
The commentary is hy Anandapūrņamunindra alias Vidyāsāgara, pupil of Abhayānandapūjyapäda. Beginning:
यः श्वेतत्वमुपागतः कृतयुगे त्रेतायुगे रक्तताम् युग्मे यः कपिलो (ल:). कलौ च भगवान् कृष्णत्वमभ्यागतः । यं वेदान्तविदो वदन्ति मुनयो यो योगिभिर्गीयते स ब्रह्मा यदि वा हरो यदि हरियोऽसौ स तस्मै नमः ॥
. . . . . . . रमुग्धस्मेरवारविन्दा मधुकरमृदुधीरप्रोल्लसत्सप्ततन्त्री। मधुपतिरिव बृन्दाराधितश्रीपदाब्जा वदनकुहरवृन्दे नृत्यतां भारती नः ॥
राजधर्मद्वारा त्रिवर्ग श्रुत्वा तत्र गूढोक्तमपवर्ग विस्तरेण बुभुत्सुयुधिष्ठिरः चोदयति भीष्मम् धर्माः पितामहेनेति । धर्मा अध्ययनाध्यापनयजन याजनदानप्रतिग्रहयुद्धप्रजापालनदण्डप्रणयनकृषिगोरक्ष्यवाणिज्यद्विजशुश्रूषारूपाः । पितामहेन गौरवस्नेह . . . क्यसूचनाय पितामहे
For Private and Personal Use Only