________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1223
त्रिपुरदहनशूलिस्थाणुखट्वाङ्गिहिण्डिप्रियतमशितिकण्ठा भर्पाकल्माषकण्ठौ ॥ ८ ॥ शतधामा चतुष्पाणिः पृष्णिगर्भो गदाग्रजः। . गदी कौस्तुभवक्षाश्च पाञ्चजन्यधरोऽच्युतः ॥९॥ वैनतेयः पक्षिसिंहः शाल्मलीहारिवाहनः ।
अमृताहरणस्तायो नागाशनखगेश्वरौ ॥ १०॥ End:
कृपालासे चित्रकोले तृणगोधाध्वनि विदुः । डिम्बम्भये च कलले पुप्फुसे च प्रचक्षते ॥ २४४ ॥ धुन्धुमारश्शक्रगोपे गृहधूमे गृहालिके । तिक्तपर्वा हिलमोची गुडूची मधुयष्टिषु ॥ २४५ ॥ जलबिल्वः कर्कटके पञ्चाङ्गे जलवल्कले। चोलकी नागरङ्गे च करीरे किष्कुपर्वणि ।। २.४६ ॥ कुलालचक्रे वाहने दण्डारः शरयन्त्रके । दिग्जये वरयात्रायां दण्डयात्रां विदुर्बुधाः ॥ २४७ ।। उष्ट्रे दासीसुते चैव दासेरक इति स्मृतः । जलगुल्मो जलावर्ते कच्छपे जलचत्वरे ॥ २४८ ॥
काव्यादीनामतन्त्रत्वाच्छब्दादीनां विशेषतः । क कदा केन किं दृष्टमिति को वेदितुं क्षमः ॥ २७१ ॥ अतश्शब्दः क दृष्टोऽयमर्थतश्चापि कीदृशः । इति काव्यमलीक स्यान्मात्सर्यमलिनात्मनाम् ।। २७२ ॥
For Private and Personal Use Only