________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1.322
A DESCRIPTIVE CATALOGUE OF
कल्पावसानसमये स्थितये कवीनां देहान्तरं किमपि या सृजति प्रसन्ना । यस्याः प्रसादपरमाणुरपि प्रतिष्ठामभ्येति कामपि नमामि सरस्वती ताम् ॥ २ ॥ निर्मत्सरास्सुकृतिनः खलु ये विविच्य कर्णे गुणस्य कणमप्यवतंसयन्ति । येषां मनो न रमते परदोषवादे ते केचिदेव विरला भुवि सञ्चरन्ति ॥ ३ ॥ मुक्तामयातिमधुरा मसृणावदातच्छायाधिरागतरलामलसद्गुणश्रीः । साध्वी सतां भजत(ति)कण्ठमसौ प्रियेव हारावली विरचिता पुरुषोत्तमेन ॥ ४ ॥ किं नैव सन्ति सुधियामभिधानकोषाः किं तु प्रसिद्धविषयव्यवहारभाजः। गोष्ठीषु वादपरमे(मो)हफलासु केषां .. हारावली न विदधाति विदग्धिमानम् ॥ ५ ॥ एकं तमेव गणयन्ति परं विदग्धा वाचां विदग्धिमनि मज्जति यस्य लोकः । गोष्ठीषु यः परमशाब्दिकदुर्गमासु दुर्बोधशब्दगतसंशयमुच्छिनत्ति ॥ ६ ॥ आव्याधशब्दतः श्लोकैरर्धरातलिनात्ततः । शब्दाः पादैविबोद्धव्याः प्रागनेकार्थतस्तत(:) ॥ ७ ॥ विषमनयनशङ्क चन्द्रमौलिर्भगाली वृषभगतिगणेशौ रेरिहाणो वृषाङ्कः ।
For Private and Personal Use Only