________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1149 पदेत्यनेनोत्तरत्रोक्तेन स्त्रीपुंसविधिनिश्चयः । यथा मानुषीयं, मानुषोऽयमिति । शेषमिति । शेषमत्रानुक्तम् । अभिधानादिकं शिष्टानां महाकवीनां भाष्यकारादीनां प्रयोगतो ज्ञेयम् । यद्वा अनुक्तं शब्दलिङ्गं शिष्टप्रयोगतो बोध्यम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्योक्तेरित्यर्थः । ४६ ॥ उक्तमुपसहरति इतीति । इत्येवंप्रकारेणामरसिंहस्य कृती नामलिशास्त्रे सामान्यनामा तृतीयः काण्डः प्रस्तावो वर्गः समूहो वा अङ्गैः सहितः समर्थितो निरूपित इत्यर्थः ॥ ४७ ॥ Colophon :
श्रीमत्यमरविवेके महेश्वरेण विरचित इत्थं सामान्यकाण्ड एषोऽन्तिमस्समाप्तः ॥ शुभं भवतु ॥
शके १७७१ सौम्यनामाब्दे चैत्रमास्यसिते पक्षे दशम्यां भौमदिने इदममरकोशपुस्तकं सटीकं समाप्तम् ॥ पुण्यपत्तने पाठशालायां शिलाक्षरयन्त्रैर्मुद्रितश्च ॥
वर्गनामानि मूलश्लो(काः) क्षेपकश्लो(काः). १. विशेष्यनिघ्नवर्गः। ११२ ।। २. सङ्कीर्णवर्गः । ४३ ३. नानार्थवर्गः ; . २५७ . ४. अव्ययवर्गः ५. लिङ्गादिसङ्ग्रहवर्गः ४७
२३
४८२॥
एवं ४९० एवं त्रिकाण्डं व्याख्यासहितम् ४०००.
-
For Private and Personal Use Only