________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1147
ग्रन्थान्तरज्ञापनाय ".-'" चेत्यं संज्ञा प्रकल्पिता । क्षेपकाः प्रायशः श्लोकास्तथान लिखिता मया ।।
शास्त्रेषु काव्येषु कृतश्रमा ये तैः क्षम्यतामत्र खिलं यदस्ति । बालोपकृत्यै विहितं मयैत
प्रायेण मुह्यन्ति हि ये लिखन्ति ॥ पाठशालाधिपे क्याप्तन् क्याण्डीसाहेबसंज्ञिते । तत्पण्डितासिष्टने(ण्टे)न विदुषा तदनुज्ञया ॥ तळेकरोपाभिधेन रघुनाथेन शोधिता। व्याख्यामरविवेकाख्या वर्धिता ख्यापिता पुनः ।। खसप्तसप्तेन्दुमिते शाके पुण्याख्यपत्तने । यत्नतः पाठशालायामङ्कितेयं शिलाक्षरैः ।।
इति प्रस्तावना ॥ वन्दे तं परमानन्दं वामार्धेनोमया युतम् ।
रज्जौ भुजङवद्यत्र विवरीवृत्यते जगत् ॥ इह खलु श्रीमदमरसिंहश्चिकीर्षितस्य नामलिङ्गानुशासनस्य निर्विनपरिसमाप्त्यर्थ कृतं मङ्गलं ग्रन्थादौ शिष्यशिक्षार्थ निबध्नाति यस्येति--
यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः । सेव्यतामक्षयो धीरास्स श्रियै चामृताय च ।। समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः । संपूर्णमुच्यते वगैर्नामलिङ्गानुशासनम् ।।
148
For Private and Personal Use Only