________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
षड्दर्शनीतत्त्वविवेककर्ता स्वशिष्यसम्पादितदिग्जयश्रीः ।
तेनादिमः पण्डितपट्टभद्रः श्रीकोण्डुभट्टो जयतीह लोके ॥
लक्ष्मीधरस्तदनुजो दक्षिणामूर्तिकिङ्करः । सर्वविद्वत्कविमतस्सज्जनाप्तो विराजते ॥
141
तेन लक्ष्मीधरार्येण षड्भाषाचन्द्रिकानघा । विद्वत्कविचकोराणां प्रीतये क्रियतेऽधुना ॥ वाग्देवी जननी येषां वाल्मीकिर्मूलसूत्रकृत् । भाषा प्रयोगा ज्ञेयास्ते षड्भाषा चन्द्रिकाना || वृत्तिं विक्रमां (मी) गूढां चिख्यासन्ति ये बुधाः । षड़भाषाचन्द्रिका तैस्तद्व्याख्यारूपावलोक्यताम् ||
Acharya Shri Kailassagarsuri Gyanmandir
यत्नेन गच्छतः कापि स्खलनं स्यान्व (न्म) हीयसा । हसन्त्यसाधवस्तत्र समादधति साधवः || संप्रदाय प्रकाशार्थमपूर्वग्रन्थनिर्मिता (ती) । साहसेन प्रवृत्तोऽहं नोपहास्यो बुधोत्तमैः ॥ यदष्टं न लिखितं यद्विरुद्धमनीप्सितम् । त्रितयं तच्च हे सन्तः क्षम्यतां कृपया मयि ॥ रागद्वेषविहीनैरतिसरसैः परगुणास्तवने । विद्वत्कविभी रसिकेः षड्वषाचन्द्रिका सेव्या !! अपशब्दमहागर्ते षड्डू षाकृष्णरात्रिषु । पतन्ति कविशार्दूला पापाचन्द्रिकां विना !!
For Private and Personal Use Only
1001