________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1090
A DESORIPTIVE CATALOGUE OF
विस्रब्धं कृतविस्मराजिरभसान्निश्वासंनुन्नं स्पृहापूर्व दृष्टमधोक्षजेन शमितखेदाम्बु एकस्थले । . आलोलामलहारकुण्डलप्रभाकिम्मीरकूसिकं लक्ष्म्यास्स्तनमण्डलं भवतु ते इष्टार्थदानोन्मुखम् ॥
अस्त्यन्ध्रदेशे चरकूरवंशः कृष्णातटे काश्यपगोत्ररूढः । यो बचानां बहुमाननीयो धत्ते सदा कीर्ति(सु)वैजयन्ती(म् ) । यत्र नामादिमशिशोरङ्कितं वेङ्क(टे)शितुः । सलक्ष्मीकस्स एवाचो(?)भगवान् गृहदेवता ।। आसप्तपूरुषं यत्र लक्ष्मीवाण्योरवस्थितिः । आसीत्कपोतनाथस्य वरात्कदलिवासिनः ।। तत्रोदभूत्तिम्मयसोमयाजी बुधोऽष्टभाषाकविचक्रवर्ती । नित्यान्नदाता निजभक्तिलब्ध. वृषाकपायीरमणप्रसादः ॥ तस्मादुदैहहचचक्रवर्ती यज्ञेश्वरः पण्डितसार्वभौमः । सम्बिका सर्वगुणोपपन्ना तस्य द्वितीयाभवदम्बिकामा ॥ ताभ्यामुदर्भवन्पुत्रास्सर्वाचारनियामकाः । विधिमन्त्रार्थवादज्ञाश्चत्वारो निगमा इव ।।
For Private and Personal Use Only