________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1033
पश्चान्नीतिं पाठत्वा त्वं राज्यं भज यथासुखम् । शक्तिराज्याङ्गसेनाङ्गत्रिवर्गापायषड्गुणान् ॥ यथाकालं प्रयुञ्जानो राजा राज्यं हि रक्षति । क्रियाकारकसंबन्धज्ञानमुत्पाद्यते यया ॥ उत्सृष्टा प्रक्रिया सेयं त्वया संप्रति पठ्यताम् । प्रबोधचन्द्रिका नाम रामचन्द्रसमाश्रिता ॥ अज्ञानतिमिरध्वंसकारिणी चित्तहारिणी । बहवः प्रक्रियाग्रन्थास्सन्ति चेत्सन्तु का क्षतिः ।। मालतीमधुनः क्वापि मधुपानो मधुव्रतः(?) । विभक्तिज्ञानतो यस्मात्प्रबोधस्समजायते (त)॥ तस्मादिह प्रथमतो विभक्तिः प्रणिगद्यते । स्वादी(दि) त्यादिविभक्ती द्वे स्वादौ सप्त विभक्तयः ।। एकद्विबहुसंज्ञानि वचनानि च सप्तसु ।। प्रथमा च द्वितीया च तृतीया च यथाक्रमम् ।। चतुर्थी पञ्चमी षष्ठी सप्तमी चेति ताः क्रमात् । प्रथमैव विभक्तिस्स्यादुक्ते कर्तरि कर्मणि ॥ अनुक्ते कर्मकर्तादौ द्वितीयाद्या विभक्तयः । तत्रोक्ते कतरि यथा रामो जयति वैरिणः । रणे रामौ च रामाश्च जयतश्च जयन्ति च ॥ प्रबोधचन्द्रिकायाश्च कृतौ वैसलभूपतेः । एषा विशेषतस्सुष्ठु समाप्ता सन्धिचन्द्रिका ।। अयोध्यानगरे रम्ये रामकोण्डा(टा)बाहिस्थितः । सरयूजन्मभूमध्ये हर्म्यस्थानसमाश्रितः ।। रामनामसुधीः श्रीमद्रामपादाब्जषट्पदः । लिलेख रामसन्तुष्य रूपबोधनचै(च)न्द्रिकाम् ।।
End:
For Private and Personal Use Only