________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1032
A DESORIPTIVE CATALOGUE OF
दानेन दयया चैव युद्धेन निजकर्मणा। दानवीरो दयावीरो युद्धवीर इति स्मृतः ।। दधीचिर्दानवीरोऽभूद्दयावीराश्शिबिर्नृपः । हि(ह)म्मीरो युद्धवीरोऽभूनिदर्शनममी त्रयः ।। स्वकर्मणव पुरुषः प्रतिष्ठाधिष्ठितो भवेत् । यथा रामश्च कृष्णः परशुरामश्च पौरुषात् ।। इह राजा च रङ्कुश्च प्राक्तनेन स्वकर्मणा । इह दुःखं सुखं वापि भुङ्क्ते प्राक्तनकर्मणा ।। स्वकामकर्मपाशोऽयं सर्वेषां सुदुरत्ययः । स्वर्गश्च नरकश्चापि भजते निजकर्मणा ।। स्वीकृतः कर्मपाशोऽयं सर्वेषां सुदुरत्ययः । कृताञ्जलिपुटो भूत्वा सब्रीडमिदमब्रवीत् ॥ मातापितृभ्यां विरसं परिणामे सुखावहम् । तिक्तं कटु कषायं वा भेषजं पीयते सुतः ॥ श्रवणाञ्जालेना पीतमुपदेशामृतं मया । आज्ञाप्यतां महादेव किमिदानीमधीयताम् ।। श्रीमान्वैसलभूपालः श्रीहिराधरबालकम् । स्वकीयमातितुष्टात्मा सुतमित्यवदत्पुनः ।। नीतिविद्यास्त्रविद्या च द्वे राजोऽभिहिते सदा । तयोरप्यधिका नीतिः राज्यं हि ध्रियते यया ।। क्रियाकारकविज्ञानान्नीतिस्सम्यग्विविच्यते । स्वादी(दि)त्यादिपरिज्ञानाच्छाब्दी बुद्धिः प्रवर्तते ॥ विना व्याकरणं वाणी रमणी रमणं विना । विवेकं च विना लक्ष्मीन सुखाय कदाचन । तस्माद्व्याकरणं पूर्व पठ त्वं बुद्धिवृद्धये ॥
For Private and Personal Use Only