________________
Shri Mahavir Jain Aradhana Kendra
691
End:
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
नत्वादी शौनकाचार्य गुरुं वन्दे महानिधिम् । मुनीन्द्रं सर्वदेवज्ञं ब्रह्मज्ञं लोकविश्रुतम् ॥ नमामि शीनाचार्य शाकल्यं स्थविरन्तथा । ब्रह्मविद्यागुरुं श्रेष्ठं भारद्वाजं बृहस्पतिम् ॥ शैशिरीये समाम्नाये व्यालिनैव महात्मना । जटाद्या विकृतीरष्टौ वक्ष्यन्ते नातिविस्तरम् || जटा माला शिखा रेखा ध्वजो दण्डो रथो घनः । अष्टी विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिण: ( णा) || ग्रन्थे विकृतिवाहये व्यालिभोक्ते पुरातने । टीकेयं क्रियतेऽस्माभिर्नाम्ना विकृतिकौमुदी || ब्रूयात्क्रमविपर्यासे क्रममीदृग्विधं दिशेत् । जटाख्यां विकृतिं धीमान् विज्ञाय क्रमलक्षणन् ॥ अनुलोमविलोमाभ्यां त्रिवारं हि पठेत्कमम् । विलोमे पदवत्सन्धिरनुलाने यथाक्रमम् ॥ षत्वं णत्वञ्च दीर्घत्वं क्रमसन्धी यथोच्यते । व्युत्क्रमे तन्न कर्तव्यं स्वरक्षेप्रादिकन्तथा ॥
शाकल्यस्य शतं शिष्या नैटिकब्रह्मचारिणः । पश्च तेषां गृहस्थास्ते धर्मिष्ठा कुटुम्बिनः ॥ शैशिरो बाष्कलरसाङ्ख्यो वात्स्यश्चैवाश्वलायनः । पते शाकलारिशप्यारशाखाभेदे प्रवर्तकाः ॥
इदं जटापाठविधानमुक्तं महत्तमान्सुस्मरता च देन (व) म् । पठेज्जटां कीर्तिमुपैति मेयादन्ते पदं यान्ति परं हि विष्णोः ॥
क्रमाध्ययनसंपन्नो मन्त्रब्राह्मणपारगः ।
जटारायणपरो रुद्रलोके महीयते ।। इत्यादिपुराणे ॥
For Private and Personal Use Only