________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ax A-DESCRIPTIVE CATALOGUE OF सोमास्तषत्याः, आहसौम्याः, स्थावराः, स्तोमाः, स्परणाः, स्पृष्टाः, स्तुताः, सोमपीथाः, स्थाः, न प्रतिपूर्वः, स्थिरा अनतिपूर्वाः, अनृक्षुसाध्याः, नवैपरुः, हिमा होतव्या हाया हायना हारुका होत्राः नदेपरः हृताः मकारपरः" / Commentary--Beginning: प्रारिप्सितस्याविघ्नेन परिसमाप्त्यर्थं प्रचयगमनार्थं च इष्टदेवतां नमस्कृत्य ग्रन्थनाम निर्दिश्य ग्रन्थोद्भवं गुणविशेष प्रदर्शयति प्रत्यूहतिमिरतरणिं प्रणम्य गणनायकं देवम् / क्रियते लक्षणमाला पटीयसी बालबोधविधौ // इति / / - प्रत्यूहो विनः स एव तिमिरं प्रत्यूहतिमिरं तद्विषये तरणि सूर्य गणनायकं देवं प्रणम्य लक्षणमाला क्रियते / सा किंगुणा / बालाः लक्षणज्ञानरहिताः तेषां बोधः लक्षणज्ञानं तस्य विधिः विधानं तत्र पटीयसी पटुतरा। ननु पुरातनानामेव लक्षणानामत्र वक्ष्यमाणत्वात् नार्थी लक्षणमालया इत्यत्राह- लक्षणमालालक्ष्मीः पृथक्पृथक्स्थितिषु सन्मणिषु इति / लक्षणमालायां विद्यमाना या लक्ष्मीः सा पृथक्पृथस्थितिमत्सु लक्षणेषु नास्ति हि / यथा मणिमालायां विद्यमाना लक्ष्मीः पृथक्पृथस्थितिषु सद्रत्नेविति दृष्टान्तः / इत्थं ग्रन्थकरणस्य वैयर्थ्य परिहत्य वर्णज्ञानाभावे सर्वेषामपि लक्षणानां दुरवबोधत्वाद् आदौ वर्णानुदिशति-- पष्टिश्चतुरधिका वा व्यधिका वा लोकवेदयोवर्णाः। अष्टोत्तरपश्चाशद्वणोः स्युस्तैत्तिरीयशाखायाम् // इति // लोकवेदयोः लोके वेदे च चतुरधिकाः चतुरुत्तराः For Private and Personal Use Only