________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 297 SANSKRIT MANUSCRIPTS. तन्त्रं त्वत्र हि मानवार्थकथनं प्राधान्यतः स्थापित तत्प्राधान्यवशेन चायमपरस्मृत्यन्तरार्थान्क्यः / तत्पद्यैर्मनुनिर्मितः कृतमतिर्योगीन्द्रपद्यान्वयं पद्यं पद्यमहं विधातुमपि तु प्रासङ्गिकोऽन्यान्वयः॥ श्रीमद्देशिकपादपङ्कजरजःपुजावतंसोत्तमः शर्वाणीचरणाम्बुजप्रचरणक्रीडानिकेतान्तरः / विद्वत्पादपयोजपावनपरागावाप्य पुण्योत्सुकः . शास्त्रार्थामृतपानसंभृतरसस्तूष्णीं कथं स्यामहम् // 10 बालक्रीडेति नाम्ना जगति निगदिता विश्रुता विश्वरूपा चार्याजाता महत्या विहितबहुमतिर्याज्ञवल्क्यस्य कृत्या। या रेजे वैदिकोढा विमलतरलसत्कीर्तिवासोवृतास्या बालक्रीडा ममेयं परमत(र?)सखी सन्ततं बोभवति // / / एषा हि वचनमाला निरन्तरा वचननिवहकुसुमेन / यदि सान्तरा सुमतिभिः साधु निरूप्यैव परिपूर्या / मयैषा रचना कार्या गृह्येत यदियं बुधैः / स्तोतुं वा निन्दितुं वा स्याद् व्याख्येयार्थः प्रकाश्यते // भवभूतिनिबन्धनोदधौ तिमिभीमप्रतिवादिके गुरोः / स कटाक्षनिरीक्षणप्लवः पतितं मामयमुद्धरिष्यति // 13 यः पद्येमैनुयाज्ञवल्क्यरचितैरन्योन्यमापादितः . - संबन्धो मणिकाञ्चनैरिव चिरं विद्वद्भिरप्यर्थितः / तद्विश्लेषभयादिवान्यवचनैरन्योन्यसंश्लेषिभिः पढः परमोत्सवं न कुरुते केषां द्विषामप्ययम् / / . क्वचिदत्राविरोधाय प्रयत्नः क्वचिदन्यथा / .. 38 For Private and Personal Use Only