________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 A DESCRIPTIVE CATALOGUE OF यम(च्छल)स्तुत्यमवेक्ष्य तातो नाम्ना हरिश्चन्द्र इति व्यधत्त / / तस्यात्मजोऽभूदतुलप्रतापः साधारणो भूमिपतिर्वदान्यः। अभूतपूर्वामवनीश्वराणा मजीग(प)द्यो जगति स्वकीर्तिम् / / (बन्धीच्छदाबिरुदकीर्ति)मिहान्वितार्थी * कृत्वा परत्र च तथैव विधातुमिच्छुः। कीनाशपाशचयबन्धविमोचनार्थ तीर्थत्रयीकरविमुक्तिमचीकरद्यः॥ अस्यात्मजः श्रीमदनेति राजा नाम्ना च रूपेण च संगतार्थः / रोषारुणे चक्षुषि यद्विपक्षः (व्यती?सर्तव्य)रूपत्वमवामुकामः // कूपानारामान् धर्मायतनानि सेतुबन्धांश्च (स?) / कृत्वा स्वकीर्तिमानं राजति दिक्पालमूर्तिभेदेन / / परिशीलयता कलाकलापं विदधानेन च भूरिशः प्रदानम् / मदनेन महीभृता(थे?थ)तेन प्राथता नूतनभोजराजकीर्तिः // पुत्रेषु सत्स्वपि कळत्रयुगेऽथ तस्य पुत्रौ जगत्त्रयविसृत्वरकीर्तिपूरौ / (ताक्षौ ? जातौ) प्रियावतितरां प्रथमप्रसूता मानोन्नतौ भृशमनल्पगु(णाविहीनौ?णौ विनीतौ) / उदारशीलौ सुमनोविलास मनोज्ञवृन्दावनकेलिलोलौ / For Private and Personal Use Only