________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२७॥
अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः ॥ अधुना क्षपणा, साऽपि भावत इदमेवेति, आह च- अष्टविधं अष्टप्रकारं कर्मरजः, तत्र जीवगुण्डनपरत्वात्कर्मैव रजः कर्मरजः पुराणं प्रागुपात्तं यत् यस्मात्क्षपयति योगैः अन्त:करणादिभिरध्ययनं कुर्वन् तस्मादिदमेव कारणे कार्योपचारात् क्षपणेति । तथा चाह- इदं भावाध्ययनं नेतव्यं योजनीयं आनुपूर्व्या परिपाट्या अध्ययनाक्षीणादिष्विति गाथार्थः ।। उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते- तत्रौघनिष्पन्नेऽध्ययनं नामनिष्पन्ने द्रुमपुष्पिकेति, आह- द्रुम इति कः शब्दार्थः?, उच्यते, दुद्रुगतौ इत्यस्य द्रुरस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति (पा० ५-२-९४) मतुपि प्राप्ते दुद्रुभ्यां मः (पा०५-२-१०८) इति मप्रत्ययान्तस्य द्रुम इति भवति। साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाह
नि०- णामदुमो ठवणदुमो दव्वदुमो चेव होइ भावदुमो । एमेव य पुप्फस्स वि चउव्विहो होइ निक्खेवो ।। ३४ ।। नामद्रुमो यस्य द्रुम इति नाम द्रुमाभिधानं वा, स्थापनाद्रुमो द्रुम इति स्थापना, द्रव्यद्रुमश्चैव भवति भावद्रुमः तत्र द्रव्यद्रुमो द्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तस्त्रिविधः, तद्यथाएकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, तत्रैकभविको नाम य एकेन भवेनानन्तरं द्रुमेषूत्पत्स्यते, बद्धायुष्कस्तु येन द्रुमनामगोत्रे कर्मणी बद्धे इति, अभिमुखनामगोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिप्ते इति, अयं च त्रिविधोऽपि भाविभावद्रुमकारणत्वाद्रव्यद्रुम इति, भावद्रुमोऽपि द्विविधः- आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु । द्रुम एव द्रुमनामगोत्रे कर्मणी वेदयन्निति । एवमेव च यथा द्रुमस्य तथा किं?- पुष्पस्यापि वस्तुतस्तद्विकारभूतस्य चतुर्विधो ®आयुर्विशिष्टे इति ज्ञेयम्, तथा च न बद्धायुष्कताऽसंगतिः।
प्रथममध्ययनं द्रुमपुष्पिका, नियुक्तिः २८-३३ भावाध्ययननिक्षेपः। नियुक्तिः ३४ द्रुमपुष्पनिक्षेपप्ररूपणा।
॥२७॥
For Private and Personal Use Only