________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shes kailassagarsun Gyanmandir
11४२०॥
कामस्याष्टादशस्थानार्थव्यतिकरः।
श्रीदश- कालाख्यायां कालदोषादेव दुःखेन- कृच्छ्रेण प्रकर्षणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते, वैकालिक नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति संप्रत्युपेक्षित
रतिवाक्य श्रीहारि०
चूलिका, वृत्तियुतम् । व्यमिति प्रथम स्थानं १। तथा लघव इत्वरा गृहिणां कामभोगाः, दुष्षमायामिति वर्त्तते, सन्तोऽपि लघवः तुच्छा: प्रकृत्यैव
सूत्रम् तुषमुष्टिवदसाराः इत्वरा अल्पकालाः गृहिणां गृहस्थानां कामभोगा मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्व, न (श्लोकजातिः),
उत्प्रवजितुदेवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानं २। तथा भूयश्च स्वातिबहुला मनुष्याः । दुष्षमायामिति वर्त्तत एव, पुनश्च स्वातिबहुला मायाप्रचुरा मनुष्या इति प्राणिनो, न कदाचिद्विश्रम्भहेतवोऽमी, तद्रहितानां च । कीटक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानं ३ । तथा इदं ।। च मे दुःखं न चिरकालोपस्थायि भविष्यति इदं च अनुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अत: किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानं ४ । तथा ओमजणपुरस्कार मिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रयोक्तु: खरकर्मणो नियमत एव इहैवेदमधर्मफलम्, अत: किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम् ५। एवं सर्वत्र क्रिया योजनीया, तथा वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयंच श्वशृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानं ६। तथा अधरगतिवासोपसंपत् अधो(धर)गति:- नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः,
॥४२०॥
For Private and Personal Use Only