________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृनियुतम् ॥४१८॥
उपसहारः।
हितकारिण्येव विपाकसुन्दरत्वादिति गाथार्थः ॥ ३६४ ॥ दान्तिकयोजनामाह
प्रथमा नि०- अट्ठविहकम्मरोगाउरस्स जीअस्स तह तिगिच्छाए। धम्मे रई अधम्मे अरई गणकारिणी होई ।। ३६५ ।।
रतिवाक्य
चूलिका, अष्टविधकर्मरोगातुरस्य ज्ञानावरणीयादिरोगेण भावग्लानस्य जीवस्य आत्मनः तथा तेनैव प्रकारेण चिकित्सायां संयमरूपायां।
नियुक्तिः प्रक्रान्तायामस्नानलोचादिना पीडाभावेऽपि धर्मे श्रुतादिरूपे रतिः आसक्तिः अधर्मे तद्विपरीते अरतिः अनासक्तिर्गुणकारिणी ३६५-३६६ भवति, निर्वाणसाधकत्वेनेति गाथार्थः ।। ३६५ ।। एतदेव स्पष्टयति
रत्यभिधानो
पदर्शनम्। नि०-सज्झायसंजमतवे वेआवचे अझाणजोगे अ।जो रमइ नोरमइ अस्संजमम्मि सो वचई सिद्धिं ।। ३६६॥
नियुक्तिः ३६७ स्वाध्याये- वाचनादौ संयमे- पृथिवीकायसंयमादौ तपसि- अनशनादौ वैयावृत्त्ये च-आचार्यादिविषये ध्यानयोगे चधर्मध्यानादौ यो रमते स्वाध्यायादिषु सक्त आस्ते, तथा न रमते न सक्त आस्ते असंयमे प्राणातिपातादौ स व्रजति सिद्धिं गच्छति ? मोक्षम् । इह च संयमतपोग्रहणे सति स्वाध्यायादिग्रहणं प्राधान्यख्यापनार्थमिति गाथार्थः ।। ३६६ ।। उपसंहरन्नाह
नि०- तम्हा धम्मे रइकारगाणि अरइकारगाणि उ(य) अहम्मे । ठाणाणि ताणि जाणे जाई भणिआई अज्झयणे ।। ३६७॥ तस्माद धर्मे चारित्ररूपे रतिकारकाणि रतिजनकानि अरतिकारकाणि च अरतिजनकानि च अधर्मे असंयमे स्थानानि तानि | वक्ष्यमाणानि जानीयात् यानि भणितानि प्रतिपादितानि इह अध्ययने प्रक्रान्त इति गाथार्थः ।। ३६७ ।। उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं
इह खलु भो पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागाभूआई इमाई अट्ठारस ठाणाई सम्मं संपडिलेहिअव्वाई भवंति- तंजहा- हंभो! दुस्समाए दुप्पजीवी १, लहुसगा इत्तरिआ
॥४१८॥
For Private and Personal Use Only