________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३४८॥
अवदेत्, प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः॥५४॥
समममध्ययन ___ सवक्कसुद्धिं समुपेहिआ मुणी, गिरं च दुटुं परिवजए सया। मिअं अदुढे (९) अणुवीइ भासए, सयाण मज्ो लहई पसंसणं ॥
वाक्यशुद्धिः,
सूत्रम् सूत्रम् ५५॥
५५-५७ भासाइ दोसे अगुणे अजाणिआ, तीसे अदुढे परिवजए सया। छसु संजए सामणिए सया जए, वइज बुद्धे हिअमाणुलोमिअं वाक्यशुद्धि।। सूत्रम् ५६॥ ___ परिक्खभासी सुसमाहिइंदिए, चउक्कसायावगए अणिस्सिए। से निडुणे धुन्नमलं पुरेकर्ड, आराहए लोगमिणं तहा परं। सूत्रम् ५७॥ तिबेमि ।। सवतसुद्धीअज्झयणं समत्तं ।। ७।। वाक्यशुद्धिफलमाह-सवक्क त्ति सूत्रम्, सद्वाक्यशुद्धिं स्ववाक्यशुद्धिं वा सवाक्यशुद्धिं वा, सतीं शोभनाम्, स्वामात्मीयाम्, स इति वक्ता, वाक्यशुद्धिं संप्रेक्ष्य सम्यग् दृष्ट्वा मुनिः साधुः गिरं तु दुष्टां यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु मितं स्वरत: परिमाणतश्च, अदुष्टं देशकालोपपन्नादि अनुविचिन्त्य पर्यालोच्य भाषमाणः सन् सतां साधूनां मध्ये लभते प्रशंसनं प्राप्नोति प्रशंसामिति सूत्रार्थः ॥ ५५॥ यतश्चैवमतः- भासाइ त्ति सूत्रम्, भाषाया उक्तल्लक्षणाया दोषांश्च गुणांश्च ज्ञात्वा यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा, एवंभूतः सन् षड्जीवनिकायेषु संयतः, तथा श्रामण्ये श्रमणभावे चरणपरिणामगर्भे । चेष्टिते सदा यतः सर्वकालमुद्युक्तः सन् वदेद् बुद्धो हितानुलोमं हितं- परिणामसुन्दरं अनुलोमं मनोहारीति सूत्रार्थः ।। ५६॥ उपसंहरन्नाह-'परिक्ख'त्ति सूत्रम्, परीक्ष्यभाषी आलोचितवक्ता तथा सुसमाहितेन्द्रियः सुप्रणिहितेन्द्रिय इत्यर्थः, अपगतचतुष्कषायः क्रोधादिनिरोधकर्तेति भावः, अनिश्रितो द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम्, स इत्थंभूतो निधूय प्रस्फोट्य
For Private and Personal Use Only