________________
Shri Mahavir Jain Aradhana Kendra
श्रीदश
वैकालिकं श्रीहारि० वृत्तियुतम्
।। २८२ ।।
www.kobatirth.org
वीसमंतो इमं चिंते, हियमठ्ठे लाभमस्सिओ। जड़ मे अणुग्गहं कुज्जा, साहू हुज्जामि तारिओ ।। सूत्रम् ९४ ।। साहवो तो चिअत्तेणं, निमंतिज जहक्कमं । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए ।। सूत्रम् ९५ ।।
अह कोइ न इच्छिज्जा, तओ भुंजिज्ज एक्कओ। आलोए भायणे साहू, जयं अप्परिसाडियं ।। सूत्रम् ९६ ।। वसतिमधिकृत्य भोजनविधिमाह - 'सिआ य'त्ति सूत्रम्, स्यात् कदाचित् तदन्यकारणाभावे सति भिक्षुरिच्छेत् शय्यां वसतिमागम्य परिभोक्तुम्, तत्रायं विधिः- सह पिण्डपातेन- विशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र बहिरेवोन्दुकं - स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः ।। ८७ ।। तत ऊर्ध्वं 'विणएण'त्ति सूत्रम्, विशोध्य पिण्डं बहिः विनयेन नैषेधिकीनमः क्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरो: मुनिः, गुरुसमीप इत्यर्थः, ईर्यापथिकामादाय 'इच्छामि पडिक्कमिडं इरियावहियाए' इत्यादि पठित्वा सूत्रम् आगतश्च गुरुसमीपं प्रतिक्रामेत्कायोत्सर्गं कुर्यादिति सूत्रार्थः ।। ८८ ।। 'आभोइत्ताण' त्ति सूत्रम्, तत्र कायोत्सर्गे आभोगयित्वा ज्ञात्वा निःशेषमतिचारं यथाक्रमं परिपाट्या, क्केत्याह- गमनागमनयोश्चैव गमने गच्छत आगमन आगच्छतो योऽतिचारः, तथा भक्तपानयोश्च भक्ते पाने च योऽतिचारः तं संयतः साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः ।। ८९ ।। विधिनोत्सारिते चैतस्मिन् 'उज्जुप्पन्न' त्ति सूत्रम्, ऋजुप्रज्ञः अकुटिलमतिः सर्वत्र अनुद्विनः क्षुदादिजयात्प्रशान्तः अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेद्गुरुसकाशे, गुरोर्निवेदयेदिति भावः, यद् अशनादि यथा येन प्रकारेण हस्तदा (धाव) नादिना गृहीतं भवेदिति सूत्रार्थः ।। ९० ।। तदनु च 'न संमं'ति सूत्रम्, न सम्यगालोचितं भवेत् सूक्ष्मं अज्ञानात्- अनाभोगेनाननुस्मरणाद्वा, पूर्वं पश्चाद्वा यत्कृतम्, पुरः कर्म पश्चात्कर्म वेत्यर्थः, पुनः आलोचनोत्तरकालं प्रतिक्रामेत् तस्य सूक्ष्मातिचारस्य इच्छामि पडिक्कमिउं गोअरचरिआए,
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चचममध्ययनं पिण्डैषणा, | प्रथमोद्देशक: सूत्रम् ८७-९६ वसतिमधिकृत्य भोजनविधिः ।
।। २८२ ।।