________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ २५३॥
अध्ययन
साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह- सुहे ति, सुखास्वादकस्य- अभिष्वङ्गेण प्राप्तसुखभोक्तुः श्रमणस्य चतुर्थमध्ययन द्रव्यप्रव्रजितस्य साताकुलस्य भाविसुखार्थं व्याक्षिप्तस्य निकामशायिनः सूत्रार्थवेलामप्युल्लङ्घय शयानस्य उत्सोलनाप्रधाविनः
षड्जीव
निकायम्, उत्सोलनया- उदकायतनया प्रकर्षेण धावति- पादादिशुद्धिं करोति यः स तथा तस्य, किमित्याह- दुर्लभा दुष्प्रापा सुगतिः ।
नियुक्ति: २३३ सिद्धिपर्यवसाना तादृशस्य भगवदाज्ञालोपकारिण इति गाथार्थः ।। २६ ।। इदानीमिदं धर्मफलं यस्य सुलभं तमाह- तवोगुणे
पर्यायशब्दाः। त्यादि, तपोगुणप्रधानस्य षष्ठाष्टमादितपोधनवतः ऋजुमतेः मार्गप्रवृत्तबुद्धेः क्षान्तिसंयमरतस्य क्षान्तिप्रधानसंयमासेविन इत्यर्थः, परीषहान् क्षुत्पिपासादीन् जयतः अभिभवतः सुलभा सुगतिः उक्तलक्षणा तादृशस्य भगवदाज्ञाकारिण इति गाथार्थः ।। २७ ।। महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह-‘इच्चेय'मित्यादि, इत्येतां षड्जीवनिकायिका अधिकृताध्ययनप्रतिपादितार्थरूपाम्, न विराधयेदिति योगः, सम्यग्दृष्टिः जीवस्तत्त्वश्रद्धावान् सदा यतः सर्वकालं प्रयत्नपरः सन्, किमित्याहदुर्लभं लब्ध्वा श्रामण्य दुष्प्रापं प्राप्य श्रमणभावं- षड्जीवनिकायसंरक्षणैकरूपं कर्मणा मनोवाक्कायक्रियया प्रमादेन न विराधयेत् न खण्डयेत्, अप्रमत्तस्य तु द्रव्यविराधना यद्यपि कश्चिद् भवति तथाऽप्यसावविराधनैवेत्यर्थः। एतेन जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः? ॥१॥ इत्येतत्प्रत्युक्तम्, तथा सूक्ष्माणां विराधनाभावाच्च । ब्रवीमीति पूर्ववत् । अधिकृताध्ययनपर्यायशब्दप्रतिपादनायाह नियुक्तिकार:
नि०-जीवाजीवाभिगमो आयारो चेव धम्मपन्नत्ती । तत्तो चरित्तधम्मो चरणे धम्मे अएगट्ठा ।।२३३ ।। जीवाजीवाभिगमः सम्यग्जीवाजीवाभिगमहेतुत्वात् एवं आचारश्चैव आचारोपदेशत्वात् धर्मप्रज्ञप्ति: यथावस्थितधर्मप्रज्ञापनात् तत: चारित्रधर्म: तन्निमित्तत्वात् चरणं चरणविषयत्वात् धर्मश्च श्रुतधर्मस्तत्सारभूतत्वात्, एकार्थिका एते शब्दा इति गाथार्थः ।।
BHEE880588888888881
|| २५३॥
For Private and Personal Use Only