________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥ १ ॥
प्रथममध्ययन दुमपुष्पिका, निक्तिः
॥ अहम् ॥ ॥ श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४२-ग्रन्थाङ्कः-३१ ।। ।। प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥ ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः ।।
॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ । तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः ।। श्रीमच्छय्यम्भवसूरीश्वरसूत्रितं श्रीमद्भद्रबाहुविरचितनियुक्तियुतं याकिनीमहत्तरासूनु
सूरिपुरन्दर-श्रीहरिभद्रसूरिकृतबृहद्वृत्तियुतं
श्रीदशवैकालिकसूत्रम्। जयति विजितान्यतेजाः सुरासुराधीशसेवित: श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिर्वीरः ॥१॥ इहार्थतोऽहत्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्य शारीरमानसादिकटुकदुःखसंतानविनाशहेतोर्दशकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते- तत्र प्रस्तुतार्थप्रचिकटयिषयैवेष्टदेवतानमस्कारद्वारेणाशेषविघ्नविनायकापोहसमर्थां परममङ्गलालयामिमां प्रतिज्ञागाथामाह नियुक्तिकार:
नि०-सिद्धिगइमुबगयाणं कम्मविसुद्धाण सव्वसिद्धाणं । नमिऊणं दसकालियणिजुत्तिं कित्तइस्सामि ॥१॥
॥१
॥
For Private and Personal Use Only