________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२१०॥
भा०- हेउप्पभवो बंधो जम्माणंतरहयस्स नो जुत्तो। तज्जोगविरहओखलु चोराइघडाणुमाणाओ।। ४६ ।। हेतुप्रभवो हेतुजन्मा बन्धो ज्ञानावरणादिषद्लयोगलक्षणः, जन्मानन्तरहतस्य उत्पत्त्यनन्तरविनष्टस्य न युक्तो न घटमान: तद्योगविरहत इति तै:- बन्धहेतुभिर्मिथ्यादर्शनाविरतिप्रमादकषाययोगलक्षणैर्यो योगः- संबन्धस्तद्विरहतः- तदभावादेव, खलुशब्दस्यावधारणार्थत्वात्, चौरादिघटानुमाना दित्यनुमानशब्दो दृष्टान्तवचनः, चौरादिघटादिदृष्टान्तात्, न हि उत्पत्त्यनन्तरविनाशी चौरश्चौर्यक्रियाभावेन बध्यते, स्थायी हि घटो जलादिना संयुज्यते इति व्यतिरेकार्थः, प्रयोगश्चात्र- न क्षणिक आत्मा, बन्धप्रत्ययत्वाञ्चौरवत्, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववदिति गाथार्थः ।। नियुक्तिगाथायां बन्धस्य प्रत्ययाभावादिति व्याख्यातम, अधना 'विरुद्धस्य चार्थस्याप्रादर्भावाविनाशाच्चे'ति व्याख्यायते
भा०- अविणासी खलु जीवो विगारणुवलंभओ जहागासं । उवलब्भंति विगारा कुंभाइविणासिदव्वाणं ।। ४७ ।। अविनाशी खलु जीवो, नित्य इत्यर्थः, कुत इत्याह विकारानुपलम्भात् घटादिविनाशे कपालादिवद्विशेषादर्शनाद्, यथाऽऽकाश- आकाशवदित्यर्थः, एतदेव स्पष्टयति- उपलभ्यन्ते विकारा दृश्यन्ते कपालादयः कुम्भादिविनाशिद्रव्याणाम्, न चैवमत्रेत्यभिप्रायः, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववत्, इति गाथार्थः। प्रकृतसंबद्धामेव नियुक्तिगाथामाह
नि०-निरामयामयभावा बालकयाणुसरणादुवत्थाणा । सुत्ताईहिं अगहणा जाईसरणा थणभिलासा ।। २२६ ॥ निरामयामयभावात् निरामयस्य-नीरोगस्याऽऽमयभावाद्-रोगोत्पत्तेः, उपलक्षणं चैतत् सामयनिरामयभावस्य, तथा चैवं वक्तार उपलभ्यन्ते-पूर्वं निरामयोऽहमासं सम्प्रति सामयो जातःसामयो वा निरामय इति, न चैतन्निरन्वयलक्षणविनाशिन्यात्मन्युपपद्यते, उत्पत्त्यनन्तराभावादिति प्रयोगार्थः, प्रयोगस्तु-अवस्थित आत्मा, अनेकावस्थानुभवनात्, बालकुमाराद्यवस्थानु
चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् घजीवनिकायः भाष्यम् ४६ अन्यत्वादिद्वारत्रयम्। भाष्यम् ४७ नियुक्तिः २२५-२२६ जीवनित्यत्वसिद्धिः।
|| २१०॥
For Private and Personal Use Only