SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१६६।। पञ्चाचाराः। खपुटवत् सिद्धमन्त्रः 'रायगणसंमया' राजगणसंमताश्चेति राजसंमता- मत्र्यादयः गणसंमता- महत्तरादयः चशब्दादान-8 तृतीयमध्यवनं श्राद्धकादिपरिग्रहः, एते तीर्थ-प्रवचनं प्रभावयन्ति-स्वतः प्रकाशस्वभावमेव सहकारितया प्रकाशयन्तीति गाथार्थः। उक्तो क्षुल्लिका चारकथा, दर्शनाचारः, साम्प्रतं ज्ञानाचारमाह- काल इति, यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः। नियुक्तिः कर्तव्यो नान्यदा, तीर्थकरवचनात्, दृष्टं च कृष्यादेरपि कालग्रहणे फलं विपर्यये च विपर्यय इति, अत्रोदाहरणं- एक्को साहू १८१-१८७ पादोसियं कालं घेत्तूण अइक्वंताएवि पढमपोरिसीए अणुवओगेण पढइ कालियं सुयं, सम्मट्ठिी देवया चिंतेइ-मा अण्णा पंतदेवया छलिज्जइत्तिकाउं तक्त्रं कुंडे घेत्तूर्ण तक्कं तकंति तस्स पुरओ अभिक्खणं अभिक्खणं आगयागयाई करेइ, तेण य: चिरस्स सज्झायस्स वाघायं करेइत्ति, भणिआ य-अयाणिए! को इमो तक्कस्स विक्कणकालो?, वेलं ता पलोएह, तीएवि भणियं- अहो को इमो कालियसुअस्स य सज्झायकालोत्ति, तओ साहुणा णायं-जहा ण एसा पागइत्थित्ति उवउत्तो, णाओ अडरत्तो, दिण्णं मिच्छादुक्कडं, देवयाए भणियं- मा एवं करेजासि, मा पंता छलेज्जा, तओ काले सज्झाइयव्वं ण उ अकालेत्ति । तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयः- अभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति, इत्थ उदाहरणं सेणिओ राया भजाए भण्णइ-ममेगखंभं पासायं करेहि, एवं दुमपुस्फियज्झयणे वक्खाणियं, तम्हा विणएण। 0 एकः साधुः प्रादोषिकं कालं गृहीत्वा अतिक्रान्तायामपि प्रथमपौरुष्यामनुपयोगेन पठति कालिकश्रुतम्, सम्यग्दृष्टिदेवता चिन्तयति- माऽन्या प्रान्ता देवता छलीदितिकृत्वा तक्रं कुण्डे गृहीत्वा तक्रं तक्रमिति तस्य पुरतोऽभीक्ष्णमभीक्ष्णं गतागतानि करोति, तेन च चिराय स्वाध्यायस्य व्याघातं करोतीति, भणिता च- अज्ञे! कोऽयं तक्रस्य विक्रयकालः?, बेला तावत् प्रलोकय, तयाऽपि भणित- अहो अयं कः कालिकश्रुतस्य च स्वाध्यायकाल इति?, ततः साधुना ज्ञातं- यथा नैषा । अप्राकृता स्त्रीत्युपयुक्तः, ज्ञातोऽर्धरात्रः, दत्तं मिथ्यादुष्कृतम्, देवतया भणितं- मैवं कुर्याः मा प्रान्ता छलीत्, ततःकाले स्वाध्येयं नत्वकाल इति। 0 अत्रोदाहरण श्रेणिको राजा भार्यया भण्यते- ममैकस्तम्भं प्रासादं कुरु, एवं यथा द्रुमपुष्पिकाध्ययने व्याख्यातम्, तस्माद्विनयेनाध्येयं नाविनयेन । ॥१६६ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy