________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
१२२॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् ४-५ उपनयशुद्धिः नियुक्ति:१३८ दशावयवेषुप्रथमद्वितीयौ प्रतिज्ञाप्रतिज्ञाविभक्त्यवयवी।
नि०- धम्मो मंगलमुक्किट्ठति पइन्ना अत्तवयणनिहेसो । सो य इहेव जिणमए नन्नत्थ पड़न्नपविभत्ती॥१३८॥ धर्मो मङ्गलमुत्कृष्ट मिति पूर्ववत् इयं प्रतिज्ञा, आह- केयं प्रतिज्ञेति ?, उच्यते, आप्तवचननिर्देश इति तत्राप्त:- अप्रतारकः, अप्रतारकश्चाशेषरागादिक्षयाद्भवति, उक्तं च- आगमो ह्याप्तवचनमाप्न दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसंभवात् ।। १॥ तस्य वचनं आप्तवचनं तस्य निर्देश आप्तवचननिर्देशः,आह-अयमागम इति, उच्यते, विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिज्ञेति न दोषः, पाठान्तरं वा साध्यवचननिर्देश इति, साध्यत इति साध्यम्, उच्यत इति वचनं- अर्थः यस्मात्स। एवोच्यते, साध्यं च तद्वचनं च साध्यवचनं साध्यार्थ इत्यर्थः, तस्य निर्देशः प्रतिज्ञेति, उक्तः प्रथमोऽवयवः, अधुना द्वितीय उच्यते- स च - अधिकृतो धर्म: किं?- इहैव जिनमते अस्मिन्नेव मौनीन्द्रे प्रवचने नान्यत्र कपिलादिमतेषु, तथाहि- प्रत्यक्षत एवोपलभ्यन्ते वस्त्राद्यपूतप्रभूतोदकाधुपभोगेषु परिव्राट्प्रभृतयः प्राण्युपम कुर्वाणाः, ततश्च कुतस्तेषु धर्म:?, इत्याद्यत्र ।
नियुक्तिः१३९ बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभया भावितत्वाच्चेति । प्रतिज्ञाप्रविभक्तिरियं- प्रतिज्ञाविषयविभागकथनमिति गाथार्थः ।। १३८ ।। उक्तो द्वितीयोऽवयवः, अधुना तृतीय उच्यते- तत्र
नि०- सुरपूइओत्ति हेऊधम्मट्ठाणे ठिया उजं परमे । हेउविभत्ति निरुवहि जियाण अवहेण य जियंति ।। १३९ ।। सुरा- देवास्तैः पूजितः सुरपूजितः सुरग्रहणमिन्द्राद्युपलक्षणम्, इतिशब्द उपप्रदर्शने, कोऽयं?- हेतुः पूर्ववत्, हेत्वर्थसूचकं । चेदं वाक्यम्, हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्यः, अस्यैव सिद्धतां दर्शयति-'धर्मः' पूर्ववत् तिष्ठत्यस्मिन्निति स्थानम्,
॥ १२१।। धर्मश्चासौ स्थानं च धर्मस्थानम्, स्थानं- आलयः, तस्मिन् स्थिताः, तुरयमेवकारार्थः, स चावधारणे, अयं चोपरिष्टात् ।
®सज्झ० (प्र०) 10 अयमागमो वचनरूपत्वात् न प्रतिज्ञा । 0 नैष० (प्र०)10 अर्थः ।
तुतीयचतीहतुहतुविभक्त्यवयवौ पञ्चमोविपक्षावयवश्च।
For Private and Personal Use Only