________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपरिनिष्ठा।
पापकारिणः पापकरणशौलाः। प्रातिलोम्यप्रसूता निषादादयः सूतमागधादयश्च । अन्ये चैवमादयो वाक्पारुष्यप्रकरणे वक्ष्यन्ते। यच चौरमधिकृत्य दृड्वमनुवचनम्,
अन्यायोपात्तवित्तत्वाइनमेषां मलात्मकम् । ततस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेदिति ॥ तदपि प्रतिलोमादिविषयमेकमूलकत्वकल्पने लाघवात्। एतच्च महापातकविषयमिति मिताक्षराकारः। तथा,परतन्त्रास्तु ये केचिदासत्वं ये च संस्थिताः ।
अनाथास्ते तु निर्दिष्टास्तेषां दण्डस्तु ताडनम् ॥ परतन्त्रा भाऱ्यापुचादयः। संस्थिताः प्राप्ताः। अनाथा अनौश्वराः। निर्दिष्टा निईना एकत्र गृहजातादयः पञ्च दासा विवक्षिताः। अन्यत्रानाकालमृतादयो दशेत्यपौनरुक्त्यम्।
ताडनं बन्धनञ्चैव तथैव च विलम्वनम् ।
एष दण्डो हि दासस्य नार्थदण्डो विधीयते ॥ तथा,
बालड्वातुरस्त्रीणां न दण्डस्ताडनं दमः । न दण्डान्तरमपि तु ताडनमेवेत्यर्थः ॥ तथा,स्त्रीधनं दापयेद्दण्डं धार्मिकः पृथिवीपतिः। निर्द्धना चाप्तदोषा स्त्री ताडनं दण्डमर्हति ॥
For Private And Personal Use Only