________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड-भेदाः।
तान्याह,
हस्तावि-लिङ्ग-नयनं जिह्वा-कौँ च नासिका। जिह्वा-पादा संदंश-ललाटौष्ठगुदं कटिः ॥ अईपदं जिह्वायामप्यन्वेति इन्धोत्तरश्रुतत्वात् , अन्यथा जिह्वेति पुनरभिधानानर्थक्यात्। सन्दंशस्तजन्यङ्गुष्ठौ मिलितो, अब पादाईस्यापि दर्शनात्।
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कौँ च धनं देहस्तथैव च ॥ इति मनुवचने हस्तादौ दित्वमविवक्षितं पक्षप्राप्तानुवादो वा, एवञ्चास्य दशविधत्वाभिधानमपि भ्यूनसंख्याव्यवछेदपरम्। देहग्रहणञ्चाच प्रमापणपरं यदाह । कुल्लकभट्टः,
देहदण्डो मारणमिति। . प्रमापणं दिविधं शुई मिश्रञ्च । तयोः शुद्धं विविधमविचित्र विचित्रञ्च, तत्राविचिचं खड्गपातादिकृतं, विचिचं शूलारोपणादि-विचित्रोपायप्रयुक्तं; मिश्रमङ्गछेदादिपूर्वकं मिश्रणं च दण्डान्तराणामपि यथायथमूहनौयम् ।
For Private And Personal Use Only