________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
अथ सम्यग्दण्डगुणाः।
तब मनुः,
तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवईते। तथा,
समौक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः। याज्ञवल्क्यः,
सम्यग् दण्डयनं राज्ञः स्वर्गकौर्त्तिजयावहम् । यो दण्ड्यं दण्डयेद्राजा सम्यक् वध्यांश्च घातयेत् ॥ इष्टं स्यात् क्रतुभिस्तेन सहस्रशतदक्षिणैः ॥ इह राजेति हननाधिकारी श्रुत एव। यत्र विशेषवचनं नास्ति तत्रापि बधार्थमुपदेशो राज्ञ एव राजसत्तेरेव वा तस्यैव प्रजापालनवृत्तत्वात् । न दिजातिमात्रस्य ।
ब्राह्मणः परीक्षार्थमपि न शस्त्रमुपाददौतेति बौधायनेन,-.
आयुधग्रहण-नृत्यगौतवादिचाणोति राजाधीनेभ्योऽन्यत्र न विद्येरन् ।
इत्यापस्तम्बेन च तस्य शस्त्रग्रहणनिषेधस्वरसात्। अत्र मिताक्षराकारः,
यदा राज्ञो निवेदने कालविलम्बेन कार्यातिपातः शक्यते तदा स्वयमेव चौरादौन हन्यात्, तत्र मनुना शस्त्रं द्विजातिभिर्ग्राह्यमित्यादिनाभ्यनुज्ञानादित्याह।
१ ग घ पुस्तकहये प्रवत्तत्वात् ।
For Private And Personal Use Only