SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ विशिष्टशद्रस्य नियमातिकमदण्डः। तत्र मनुनारदौ,धर्मोपदेशं दर्पण दिजानामस्य कुवतः । तप्तमासेचयेत्तैलं ववे श्रोत्रे च पार्थिवः ॥ धर्मोपदेशमिति कथञ्चिद्धर्मलेशमवगम्य अयं ते धर्मोऽनुष्ठेय इति ब्राह्मणस्याहङ्कारेणोपदिशत इत्यर्थः । वृहस्पतिः,धर्मोपदेशकर्ता च वेदोदाहरणान्वितः । आक्रोशकश्च विप्राणां जिह्वाच्छेदेन दण्ड्यते ॥ गौतमः, अथास्य वेदमुपशृणुतस्त्रपुयतुभ्यां कर्णपूरणम् । उदाहरणे जिह्वाच्छेदो धारणे च शरीरछेदः ॥ हारोतः, तस्माद्देदश्रुतिश्रवणे शूद्रस्य त्रपुसौसौ विप्लाव्य कौँ पूरयेत् । विप्लाव्य द्रवीकृत्य। हलायुधेन विद्राव्येत्येव पठितम् । मनुनारदौ,सहासनमभिप्रेप्सरुत्कृष्टस्यापकृष्टजः। कव्यां कृताको निर्वास्यः स्फिचञ्चास्यावकर्षयेत् ॥ सहासनमभिप्रेप्सुरेकासनोपवेशी, अभिप्रेप्सुपदस्याभिप्राप्तिपरत्वात् । 41 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy