________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः । अथ ब्राह्मणदिदूषणे दण्ड्य इत्यनुवृत्ती, विष्णु,
अभक्ष्येण ब्राह्मणस्य दूषयिता षोडशसुवर्णान्, जात्यपहारिणा शतम्, सुरया वध्यः। क्षत्रियदूषयितुस्तदईम् । वैश्यदूषयितुस्तदईम् । शूद्रदूषयितुः प्रथमसाहसम् ।
अत्र अभक्ष्येणान्नपानादिमिश्रितेन स्वरूपेण वेति मिताक्षरा। अभक्ष्यमपेयस्याप्युपलक्षणम् । अभक्ष्यमथवाऽपेयं ब्राह्मणान् ग्रासयन् दिजान् ।
इति मनुसंवादात् । तेन अभक्ष्येण विन्मवादिना । जात्यपहारिणा लशु-, नादिना। शूद्रस्याभक्ष्यं कपिलादुग्धादि। जात्यपहारि निषिद्धपञ्चनखमांसादि। तदईमिति अभक्ष्येण दूषणे अष्टौ सुवर्णान् जात्यपहारिणा पञ्चाशदित्यर्थः। तदर्द्धमिति पञ्चविंशतिसुवर्णानित्यर्थः ।
एतदुत्तमब्राह्मणादिविषयम् । अन्यत्र त्वाह याज्ञवल्क्यः,विजं प्रदूष्याभक्ष्येण दण्ड उत्तमसाहसः ।
क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्द्धिकम् ॥ यच्च,
कूटस्वर्णव्यवहारौ विमांसस्य च विक्रयौ। व्यङ्गहीनास्तु कर्त्तव्याः शास्याश्चोत्तमसाहसम् ॥
इति याज्ञवल्क्यवचनम् । तत्र चौण्यङ्गानि नासा-कर्ण-कररूपाणौति मिताक्षरा-रत्नाकरादयः।
१ क्वचित् पाठः दण्डानुसत्तौ।
For Private And Personal Use Only