________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०६
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड़विवेकः ।
भोजनमकृतवते इति तत्त्वम् । विष्णुवचनेने कमूलकत्वात् । हिरण्यमाषकं दाप्यो राज्ञे ।
अच प्रतिभाति — एतत् प्रातिवेश्यानुवेश्यव्यतिरिक्तसाधुश्रोत्रियविषयं विंशतिद्विज इति विशेषणस्वरसात् । एवञ्च पूर्व्ववाक्येऽपि माषः सौवर्ण एव वाच्यः, प्रकरणात् विषयसाम्याच्च ।
अर्हो निमन्त्रयितुरर्हनिमन्त्रणा स्वीकारिणा विष्णुक्तेन तुल्यत्वात् सन्निहितेन निर्दोषेण व्यवहितस्य सगुणस्य तुल्यत्वाच्च । पूर्व्वत्र दोषाभावे सति सान्निध्यस्यैव गुणत्वौचित्येन निमन्त्रणप्रयोजकत्वात् ।
यत्तु हलायुधेन तचोक्तं माषकश्चाच रौप्यो बोड्डव्यो मानवेनोत्तरश्लोकेन अतोऽधिके भूतिकृत्यात्मके प्रातिवेश्यश्रोत्रियाभोजनरूपे अपराधे विशिष्य हिरण्यमापकदण्डाभिधानादिति । तच्चिन्त्यम् ।
उत्तरश्लोकविषयस्य दर्शितत्वात् । तस्यापि प्रातिवेश्यविषयत्वे दण्डभेदानुपपत्तेर्भेदहेत्वभावात् गुणवत्त्वस्य
व्यवहितनिमन्त्रणप्रयोजकत्वेन चरितार्थत्वात् ।
न च पूर्व्ववाक्ये विंशतिद्दिज इति वचनान्माङ्गल्यस्य च कर्म्मणो लाघवम् । उत्तरवाक्ये भूतिकृत्य इतिवचनात्तस्यैव गौरवं विवक्षितम् । तः प्रभूतेऽपि कर्म्मणि सन्निहितश्रोत्रियानिमन्त्रणमित्यधिकोऽपराध इति युक्तं दण्डाधिक्यमिति वाच्यम् ।
विंशतिद्विजेऽपि कर्म्मणि वाधकाभावे प्रातिवेश्यपरित्यागे अपराधाधि' क्यात् ।
१ क अपवाधाधिक्यात् ।
For Private And Personal Use Only