________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
दाइविवेकः ।
वृहस्पतिवचनानामर्थशास्त्रत्वेन दण्डाभावपरतया चरितार्थत्वादविरोधस्तथा परस्वादानवर्जनं यद्यपि धर्मशास्त्रत्वेन व्रतोपमञ्च बलवत्त्वात्, तथापि यस्तमपहस्तयित्वा निधिं गृह्णाति, तस्य राज्ञोऽविगर्हणमितरस्यादण्डनमिति निधिग्राहकवचनार्थः। एष चार्थः,
अजडश्चेदपोगण्डो विषये चास्य भुज्यते । भागं तद्यवहारेण भोक्ता तद्धनमर्हति ॥ इति वदता मनुनैव स्पष्टमुक्तः, व्यवहारेणेति वचनात् धर्मतः पूर्वस्वामिन एवेत्यभियुक्त विवरणात् ।
एवञ्च ब्राह्मणेतरस्वामिकत्वेनैव निश्चितो निधिरादेयस्तदितरस्तु राज्ञा ब्राह्मणेभ्यो देय इति स्थितम्। इह ब्राह्मणादेः कृत्स्नैकदेशग्रहणं राजनिवेदनपूर्वकमेव । यदाह नारदःपरेण निहितं लब्धा राजन्यपहरेन्निधिम् ।
तेन दत्तन्तु भुञ्जौत स्तेनः स्यादनिवेदने ॥ स्तेनः स्यादिति स्तेयोक्तदण्डप्राप्त्यर्थम् । याज्ञवल्क्यः,
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च । तं निधिम् । दण्डं शक्त्यपेक्षमिति मिताक्षराकारः। सर्वस्वमिति तत्त्वम् । तथा च विष्णुः,अनिवेदितविज्ञातस्य सर्वस्वमाहरेत् ।
इति प्रकीर्णके उद्दिष्टवर्गः॥
For Private And Personal Use Only