________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपाष्यदण्डः ।
२४५
तथाहि ब्रह्मवधप्रायश्चित्तमुत्रा यस्तैः सह सम्बन्धं कुर्यात्तस्याप्येवमेव प्रायश्चित्तमित्यभिधाय आततायिवधेऽप्येकं सूत्रं पूर्वोक्तप्रायश्चित्तनिषेधकं सुमन्तुनोक्तं, दोषोऽन्यत्रेति द्वितीयमाततायिव्यतिरिक्तवधे दोषप्रतिपादकम् । गोब्राह्मणान् नतः प्रायश्चित्तं कुर्यादिति तृतीयं प्रायश्चित्ताङ्गस्य प्रतिपादकम् ।। तत्र गोस्नानं गोशृङ्गोदकस्नानम्,श्रूयन्ते यानि तीर्थाणि त्रिषु लोकेषु नित्यशः ।
अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च ॥ इति व्यासोक्तम् । ब्राह्मणपदस्य विधिवाक्ये परत्वात्तबेतुकमघमर्षणस्नानमिति चेन्नैवं सूत्रावच्छेदभेदकल्पनाया मिताक्षरादिविरोधेनाश्रद्धेयत्वात् ।
अपि च ब्रह्मवधिनः प्रायश्चित्तमुपदिश्य तत्संसर्गिणि तदतिदिश्य तदपवादकं प्रथमं सूचमिति त्वयैवोक्तमेववाततायिघातिनो यः संसर्गौ तस्येदं नास्तौति सूचार्थो वाच्यः।
न चायं सुवचो वधशब्दस्य वधकर्तृसंसर्गिणि सामर्थ्याभावात्। किञ्च यद्याततायिवधे दोषो नास्ति तदा तत्संसर्गिणि सुतरामतः कथं तत्प्रायश्चित्तातिदेशः कथं वा तदपवादो घटते प्रसक्त्यभावात् ।
वस्तुतस्तु वधशब्दो नास्त्येव सूत्रे, आततायिन्यदोष इति कल्पतरौ पाठदर्शनात् । द्वितीयञ्च सूत्रं यद्यात
१ क ध पुस्तके अवचः।
For Private And Personal Use Only