________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दगडपारष्यदड़ा।
२४३
'न हिंस्यात् सव्वा भूतानि' इतिश्रुत्या न वाधः । उत्सर्गापवादन्यायेन सामञ्जस्यात् ।
एवमिहापि। 'आततायिनमायान्तं हन्यात्' इति स्मृतेर्न हन्याद् ब्राह्मणान् गांश्चेति स्मृतेर्वाधाभावाददोषो ब्राह्मणस्याततायिनो वध इति चेन्न आचार्यञ्चत्यादिमनुवचनानुपपत्तेः। अथ,—सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
आचार्य शतसाहस्रं सोदर्ये दत्तमक्षयम् ॥ समद्विगुणसाहसमानन्त्यञ्च यथाक्रमम् । दाने फलविशेषः स्याड़िसायां तहदेव हि ॥ इति दक्षवचनसंवादात् पापातिशयपरं मनुवचनमिति चेत्, अस्तु तर्हि ब्राह्मणव्यतिरिक्तविषयमाततायिवधाभ्यनुज्ञावचनं तावतैव सर्वसामञ्जस्यं स्यात् ।
आततायिन्यपि ब्राह्मणे कामतो हते पूर्ण पापमाचार्यादौ तस्यातिशयः क्षत्रियादौ तदनुपपत्तिरिति ।
वस्तुतस्तु क्षचियादिवधेऽपि दण्डाभावमात्रं ध्रुवं 'प्राणात्यये तु यत्र स्यात्'। इत्यादिदण्डवाधप्रकरणोक्तकात्यायनवचनसंवादात् । पापन्तु स्तोकमत्येव ।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन । पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥
इति भगवहौतादर्शनात् । अत एवाततायिनमपि रावणं हत्वा रामस्य प्रायश्चित्ता
For Private And Personal Use Only