________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ गवाद्यभिगमदण्डः ।
तब विष्णुः,पारजातीया सवर्णाभिगमने वृत्तमसाहसं दण्ड्यः । होनवर्णागमने मध्यमं । गोगमने च। अन्त्यागमने बध्य उत्तमागमने च।
अत्र गोगमने चेति चकारेण मध्यममित्यस्यानुकर्षः। " मध्यमं साहसं गोषु" इति नारदसम्बादात् । उत्तमश्रुतवधानुकर्षे तुशब्दस्वरसभङ्गप्रसङ्गात् वचनञ्चैतदब्राह्मणविषयम् । ब्राह्मणविषये त्वाह मत्स्यपुराणम्,
सुवर्णन्तु भवेद्दण्ड्यो गां व्रजन् मनुजोत्तमः । अब रत्नाकरकृता विष्णवाक्ये वधस्यानुकर्षः स च शुद्रविषयः नारदोक्तस्तु मध्यमसाहसः क्षत्रियवैश्ययोरित्यविरोध इत्युक्तम् ।
तच्चिन्त्यं श्रुतस्यानुकर्षो न तु श्रोष्यमाणस्येति पदशक्तिविसम्बादात् व्युत्पत्तिविरोधाच्च । मत्स्यपुराणे,तिर्यग्योनौ च गोवज मैथुनं यो निषेवते। स पणं प्राप्नुयादण्डं तस्याश्च यवसोदकम् ॥
१ क्वचित् पारजायोति पाठः ।
For Private And Personal Use Only