________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
दण्डविवेकः।
शङ्खलिखितौ,कन्यायामसकामायां यङ्गुलछेदो दण्डश्चोत्तमायां वधो जघन्यस्य ।
इदमप्यङ्गुलियसाध्यमैथुनविषयम् । हरिहरस्तु,
याङ्गुलिपरिमाणलिङ्गछेद इत्याह। चकारो द्यङ्गुलछेद-दण्डयोः समुच्चयार्थः। दण्डश्च षट्शतरूपः । यदाह मनुः,
अभिषह्य' तु यः कन्यां कुर्य्यादर्पण मानवः । तस्याशु का चाङ्गुल्यौ दण्डः षट्शतमईति ॥ अभिषह्याभिभूय कुर्यात् क] छेद्यौ दूषणमत्राङ्गुलिप्रक्षेपात् योनिक्षतकरणमिति मिताक्षराकारः। मनुटौकायां कुल्लूकभट्टोऽप्येवं नारायणस्तु कुर्यादिति विश्तयोनिं कुर्यादित्यर्थमाह । याज्ञवल्क्यः,
दूषणे तु करछेद उत्तमायां वधस्तथा । अनुलोमान्विति पूवा दनुवर्तते यदानुलोमामकामां बलात्कारेण नखक्षतादिना वा दूषयति तदा हस्तछेद इत्यर्थ इति मिताक्षराकारः ।
उत्तमायामिति दूषितायामिति विपरिणामेनानुषङ्गः, वधी होनस्येत्यर्थादधमजातिपुरुषविषयमिति सर्वज्ञ व्याख्यानाच्च ।
१ घ ७ पुस्तकद्दये अविषह्य।
२ ख कल्य्यावाल्यो।
For Private And Personal Use Only