________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
दण्डविवेकः ।
एतच्च समयाधिक्यमादायैतदनुसारेणाधिको दण्ड इति परमार्थ इति रत्नाकरः ।
कल्पतरौ तु व्याख्यातम्,संवत्सरमनेनोपभुक्ता परस्त्रीति यस्याभिशापः स सम्बत्सराभिशस्तस्तस्य सम्बत्सरमुपभुक्तायां यो दण्ड उक्तः स द्विगुणः स्यात् ।
दष्टस्येति न केवलमभिशस्तस्य किन्तु दृष्टस्य स्वरूपतो दोषभाज इति ।
मनुटौकायान्तु,
परस्त्रीगमनदोषेण दुष्टस्य पुंसो दण्डितस्य सम्बत्सरातिक्रमे पुनस्तस्यामेवाभिशस्तस्य पूर्वदण्डात् द्विगुणो दण्डः कार्य इति व्याख्यातम् ।
व्रात्या प्रभ्रष्टधर्माचारा। अनुपपन्नकर्मधर्भाचारा व्रात्या इति हारीतोक्तरिति रत्नाकरः। __ लक्ष्मौधरोऽप्याह-वात्या अत्यन्तदुराचारा, वध-वन्धोपजीविप्रभृतय इति। अतिक्रान्तविवाहकाला कन्येति हलायुधः।
एवमेव मनुटौकायां नारायणः । कुल्लूकभट्टस्तु व्रात्यजाता व्रात्येत्याह।
व्रात्यां चाण्डालौञ्च गत्वा ऽदण्डितस्य वत्सरान्त एव गच्छतः “सहस्रन्वन्त्यजस्त्रियम्” । इति मनूक्तो दण्डो
१ ग पुस्तके [ ] चिहितांशः पतितः ।
For Private And Personal Use Only