________________
Shri Mahavir Jain Aradhana Kendra
दान
॥४१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्युभयतोमुखीदानप्रयोगः ॥ ॥ अथप्रसंगादुभयतोमुखी प्रतिग्रहप्रायश्चित्तम् ॥ ॥ ममोभयतोमुखीप्रति चंद्रि० हदोषपरिहारार्थकृच्छ्रत्रयप्रायश्चित्तंयथाप्रत्याम्नायेनकरिष्ये इतिसंकल्प्य कृच्छ्रत्रयप्रायश्चित्तंकुर्यादित्युक्तं दानोद्योतेऽरुणस्मृतौरहस्यप्रायश्चित्तेष्वशक्तस्य ॥ इत्युभयतोमुखी प्रतिग्रहप्रायश्चित्तम् ॥ ॥ इत्युभयतो ||मुखीगोदान निरूपणम् ॥ ॥ अथदशदानानि ॥ ॥ मदनरत्नेजातूकर्ण्यः ॥ उत्क्रांत्यादीनिदानानि दशदद्यान्मृतस्तु ॥ गोभूतिल हिरण्याज्यवासोधान्यगुडानिच ॥ रौप्यंलवणमित्याहुर्दशदानान्यनुक मात- इति ॥ एतानिदशदानानिनराणां मृत्युजन्मनोः ॥ कुर्यादभ्युदयार्थं प्रेतेऽपिहिपरत्रच ॥ इति हेमाद्रिः ॥ ॥ तत्रादौगोदानम् ॥ दानविधिस्तुपूर्वोक्तएव । ममसर्वपापक्षयार्थइमां गांधेनूपस्करांरुद्रदैव त्यांसुवर्णादिदक्षिणायुतां गोत्रायशर्मणेसुपूजितायतुभ्यमहं संप्रददे नममेति ॥ मंत्रस्तु ॥ यज्ञसाधन भूतायाविश्वस्यान्नप्रदायिनी || विश्वरूपधरोदेवः प्रीयतामनुयागवा ॥ गवामंगंष्वित्यादिनाप्रार्थयेत् i इतिगोदानम् ॥ ॥ अथभूमिदानम् ॥ मात्स्ये ॥ निवर्तनमिता भूमिर्देया ॥ दशहस्तेन दंडेन त्रिंशद्दंडानिव र्तनम - इतिस्मरणात् ॥ दानान्यान्यनिसर्वाणिकनकादीनियानिच ॥ तानिभूमिप्रदानस्यकलांनार्हति
For Private and Personal Use Only
॥४१॥