________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतः स्विष्टकृदादिहोमशेषसमाप्य भूयसींदक्षिणांदत्त्वागामनुब्रज्य गोमतींजपेत् ॥ महाभारते ॥ गावोमा मुपतिष्ठतु हेमशृंग्यः पयोमुचः ॥ सुरभ्यः सौरभेय्याश्वसरितः सागरंयथा ॥ गाश्चपश्याम्यहं नित्यंगावःप श्यंतुमांसदा ॥ गावोऽस्माकंवयंतासांयतोगावस्ततोवयम् ॥ घृतक्षीरप्रदागावोघृतयोन्योघृतावहाः ॥ घृतनद्योघृतावर्तास्तामे संतु सदागृहे ॥ घृतंमेहृदये नित्यं घृतंनाभ्यांप्रतिष्ठितम् ॥ घृतंमे सर्वतश्चैव घृतमध्ये वसाम्यहम् || गावोमेअग्रतः संतुगावोमे संतुष्पृष्ठतः ॥ गावोमेहृदयेसंतुगवांमध्येवसाम्यहम् ॥ गावः सु रभयोनित्यंगावोगुग्गुलुसन्निभाः ॥ गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनमहत् ॥ अन्नमेवपरंगावादेवा नांहविरुत्तमम् ॥ पावनंसर्वभूतानांरक्षतिचवर्हतिच ॥ हविषामंत्रपूतेन तर्पयत्यमरान्दिवि ॥ ऋषीणा मपिहोतॄणांगावोहोमेप्रतिष्ठिताः । सर्वेषामेवभूतानांगावः शरणमुत्तमम् ॥ गावः पवित्रं परमंगावोमंगल मुत्तमम् ॥ गावः सर्वस्यलोकस्यगावोधन्याः सनातनाः ॥ नमोगोभ्यः श्रीमतीभ्यः सौरभेयीभ्यएवच ॥ नमोत्र || ह्मसुताभ्यश्चपवित्राभ्योनमोनमः ॥ इतिजपित्वा पुनः तान्धेनुंतं द्विजवरंचप्रदक्षिणांकृत्वा नमस्कृत्यविसृज्य पा | यसादिनासम्यकद्वादशबाह्मणानभोजयित्वा तेभ्योदक्षिणांदत्त्वा स्वस्त्ययनंवाचयित्वा गृहृयुतो भुंजीतेति ॥
For Private and Personal Use Only